________________
भाष्यगाथाः ३६५१-५६ ] द्वितीय उद्देशः ।
१०१५
द्रव्यतः 'छिन्नं' विभक्तं सद् अंशिकाद्रव्यं कल्पते, तदेव 'अच्छिन्नं' 'अविभक्तं' न कल्पते इति प्रोक्तम् । इदं पुनरन्यद् अस्मिन् सूत्रे सागारिकस्याव्यवच्छिन्ने भावे प्रतिषिद्धम्, न कल्पते इत्यर्थः ॥ ३६५३ ॥
अविसेसिओ व पिंडो, हेट्ठिमसत्तेसु एसमक्खातो ।
5
इह पुण तस्स विभागो, सो पुण उवकरण भत्ते वा ॥ ३६५४ ॥ अथवा अधस्तनसूत्रेषु 'अविशेषितः' विभागरहितः 'एषः ' सागारिकपिण्ड आख्यातः । 'इह पुनः' प्रस्तुतसूत्रे 'तस्य' सागारिकपिण्डस्य विभाग उच्यते । कथम् ? इत्याह -- 'स पुनः ' पिण्ड उपकरणं वा भवेद् भक्तं वा इति ॥ ३६५४ ॥
1
अनेन सम्बन्धेनायातस्यास्य व्याख्या - सागारिकस्य ये पूज्याः - खामि - कलाचार्यादयस्तदर्थं भक्तम्-अशनादि पूज्यभक्तम्, तच्चोद्देशः - सङ्कल्पस्तेन निर्वृत्तमौदेशिकम्, तानेव पूज्यानु- 10 द्दिश्य कृतमित्यर्थः । ततस्तेषामेव प्राभृतिकायां 'चेतितं' ढौकनीकृतम्, उपनीतमिति भावः । तथा सागारिकस्य उपकरणजातं - वस्त्र - कम्बलादिकं पूज्यानामर्थाय 'निष्ठितं ' निष्पादितम्, ततः 'निसृ' पूज्येभ्यः प्रदत्तम् । 'तच्च' भक्तमुपकरणं वा तेभ्यः प्रातिहारिकं दत्तम्, भुक्तावशेषं सदिदं भूयोऽप्यस्माकं प्रत्यर्पणीयमिति भावः । तद् एवंप्रकारं संयतानां सागारिको वा दद्यात् सागारिकस्य परिजनो वा दद्यात् किं कल्पते ? न वा ? इत्याह - ( मैन्थानं २४९२०) 'तस्मात् ' 15 पूज्यभक्तात् पूज्योपकरणाद्वा प्रातिहारिकाद् दद्यात् परं न कल्पते प्रतिग्रहीतुमिति सूत्रार्थः ॥ अथ भाष्यम् -
संबंधी सामि गुरू, पासंडी वा वितं समुद्दिस्स ।
पूया उक्खत्तं ति य, पट्टगभत्तं च एगट्ठा ॥ ३६५५ ॥
सागारिकस्यैव यः 'सम्बन्धी' पितृव्य- मातुलादियों वा तस्य 'स्वामी' प्रभुः 'गुरुर्वा' कला - 20 चार्यः यस्य वा पाषण्डिनो भक्तैः स पूज्य उच्यते तं समुद्दिश्य कृतं पूज्यभक्तमुच्यते । “तत्त्वभेद - पर्यायैर्व्याख्या" इति वचनादेकार्थिकान्याह — पूज्यभक्तम् उत्क्षिप्तभक्तं पट्टकभक्तम्, एतान्येकार्थानि पदानि ॥ ३६५५ ॥
चेय कडमेगट्ठ, पाहुडिय पहेणगं च एगट्ठा ।.
25
उवरणं वत्थादी, जाव विभागो व जोग्गं वा ॥ ३६५६ ॥ चेतितं कृतं चेत्येकार्थम् । प्राभृतिका प्रहेणकमिति च एकार्थे । उपकरणं वस्त्रादिकम् । वस्त्रं चेह क्षौमिकं गृह्यते, तच्च परिधानं पावरणं वा पूज्यानां दातव्यम्, आदिग्रहणात् पाषण्डिनः प्रतिग्रहो वा कम्बलं वा एकादशप्रतिमां प्रतिपित्सोर्वा रजोहरणं दातव्यम् एवमादिको यावान् विभागोऽत्र घटते यद् वा यस्योपकरणं योग्यं तद् वक्तव्यम् || ३६५६ ।।
१ °तिकया 'चे' भा० ॥ २-३ ददाति भा० ॥ ४ ग्रन्थाग्रम् -- ९००० डे० ताटी० । ग्रन्थानम् - १०००० मो० ले० ॥ ५ अत्रान्तरे मो० ले० प्रतिसत्कः द्वितीयः खण्डः समाप्यते । अन्ते च इति श्रीकल्पवृत्तिद्वितीयखण्डं समाप्तम् इत्युल्लिखितं वर्त्तते ॥ ६ दिशब्दात्
पा० भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org