________________
सनियुक्ति लघुभान-वृत्तिके हकल्पसूत्रे आहृतिका ० सूत्रम् १५ इत्यर्थः; अत एव 'अर्थः' नियुक्ति-भाष्यादिरूपः 'यथा' येन प्रकारेण 'भूतं' सद्भूतम् 'अर्थम्' अभिधेयं पश्यति 'सूत्रकारिभिरपि' गणधर-स्थविरैः 'तत्' सूत्रम् 'तथा' तेनैवाभिप्रायेण निबद्धमवसातव्यम् ॥ ३६२७ ॥ अमुमेवार्थ द्रढयति
छाया जहा छायवतो णिबद्धा, संपत्थिए जाति ठिते य ठाति ।
अत्थो तहा गच्छति पजवेसू, सुत्तं पि अत्थाणुचरं तहेव ॥३६२८॥ ___ 'छाया' प्रतीता, सा यथा 'छायावतः' पुरुषादेः 'निबद्धा' परतन्त्रा सती तस्मिन् सम्प्रस्थिते याति, स्थिते च तस्मिन् साऽपि तिष्ठति; तथाऽत्रापि छायावत्पुरुषस्थानीयोऽर्थों येषु 'पर्यायेषु' भङ्गकादिविषयेषु प्रकारेषु गच्छति सूत्रमपि छायास्थानीयं तस्यैवार्थस्यानुचरं सत् 'तथैव' तेषु तेषु पर्यायेषु गच्छति ॥ ३६२८ ॥ इदमेव स्पष्टतरमाह10 जं केणई इच्छइ पजवेण, अत्थो ण सेसेहि उ पञ्जवेहि ।।
विही व सुत्ते तहि वारणा वा, उभयं व इच्छंति विकोवणट्ठा ॥ ३६२९ ॥ _ 'अर्थः' व्याख्यानविधिर्येन केनचित् पर्यायेण यत् सूत्रं ग्रहीतुमिच्छति न ‘शेषैः' अपरैः पर्यायैः, तत्र स एव प्रमाणयितव्यो न शेषा इति वाक्यशेषः । यथेहैव सूत्रे यथाभावेन विपरि
णते आनेतरि यदि सागारिको न पश्यति ततः कल्पते प्रतिग्रहीतुं तद् द्रव्यम् । एतेन पर्या 15 येण अर्थ आहृतिकामिच्छति, न शेषैरविपरिणत-क्षेत्रच्छिन्नतादिभिः पर्यायैः । एवमर्थेनेप्सितेऽनीप्सिते वा वस्तुनि सूत्रकारः कथं सूत्रं बनीयात् ? इत्याह-विधिर्वा तत्र सूत्रे वक्तव्यः, यथा अत्रैवाऽऽहतिकासूत्रे द्वितीये आलापके; 'वारणा वा प्रतिषेधः, यथेहैव प्रथमे आलापके; 'उभयं वा' विधि प्रतिषेधरूपं कचिदेकत्रापि सूत्रे शिष्यमति विकोपनार्थ सूरय इच्छन्ति, यथा
"कप्पइ निग्गंथीणं पक्के तालपलंबे भिन्ने पडिग्गाहित्तए, से वि य विहिभिन्ने नो चेव णं अवि20 हिभिन्ने ।" (उ० १ सू० ५)॥ ३६२९ ॥ अपि च
उस्सग्गओ नेव सुतं पमाणं, ण वाऽपमाणं कुसला वयंति । __ अंधो य पंगुं वहते स चावि, कहेति दोण्हं पि हिताय पंथं ॥ ३६३०॥ 'उत्सर्गतः' सामान्येन 'श्रुतं' सूत्रं नैव प्रमाणं न वा अप्रमाणम् , किन्तु पूर्वापराविरुद्धवृद्धसम्प्रदायागतेनार्थेन युक्तं प्रमाणम् , अन्यथा पुनरप्रमाणम् , इत्येवं 'कुशलाः' तीर्थकर25 गणधरा वदन्ति । तथाहि-यथा किल कश्चिदन्धो देशान्तरं गन्तुमनाः वयं मार्गमपश्यन् पहुं
गन्तुमशक्तं चक्षुष्मत्तया स्कन्धे विन्यस्य वहति, 'स चापि' पङ्गुः 'द्वयोरपि' आत्मनस्तस्य च 'हिताय' गर्चा-प्रपातायुपद्रवरक्षणाय 'पन्थान' मार्ग कथयति । एवमर्थेनाप्रबोधितं सद् अन्धस्थानीयं सूत्रम् , तद् यदा पङ्गुस्थानीयमर्थमात्मन उपरिकृतं वहति तदा सोऽप्यर्थः सूत्रनिश्रया गच्छन् सम्यग्विषयविभागदर्शितया निष्प्रत्यपायं मुक्तिमार्गमुपदिशतीति, अतोऽर्थसव्यपेक्षमेव 30सूत्रं प्रमाणमिति स्थितम् ॥३६३०॥ अथ "जाणंता वि य केई, सम्मोहं काउ लोभा वा ।" (गा० ३६२५) इति पश्चार्द्ध व्याचष्टे
अप्पस्सुया जे अविकोविता वा, ते मोहइत्ता इमिणा सुएण । १°मर्थोऽपीपिस भा० कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org