________________
भाष्यगाथाः ३६२८--२४ द्वितीय उद्देशः :
१००९ तेसिं पगासो वि तमंतमेति निसाविहंगेसु व सूरपादा ॥ ३६३१ ॥ ये 'अल्पश्रुताः' अधीतस्वल्पसूत्रा ये वा 'अविकोविदाः' अगीतार्थास्तान् अनेन सूत्रेण मोहयित्वा विजानन्तोऽपि लोभबहुलतया सागारिकस्याहृतिकापिण्डं ग्राहयन्तीति वाक्यशेषः । 'तेषां च' एवं मोहितानां 'प्रकाशः' प्रस्तुतसूत्रस्यार्थः कथ्यमानोऽपि 'तमस्तमायते' प्रबलान्धकारतया परिणमते । यथा 'निशाविहङ्गाः' उलूकाद्यास्तेषु सूर्यस्य पादाः-किरणाः प्रकाशरूपा 5 अपि महान्धकारीभवन्ति ॥ ३६३१ ॥ आह-यद्येवं ततः "कल्पते सागारिकेणापरिगृहीता आहृतिका" इति प्रस्तुतसूत्रं कथं नीयते ? अत्रोच्यते
अहभावविप्परिणए, अदिट्ट सुयं तु तम्मि उ पउत्थे ।
नीहडियाए पुरओ, संछोभगमादिणो दोसा ॥ ३६३२॥ यस्तामाहृतिका प्रहिणोति नयति वा तस्मिन् यथाभावं-खयमेव विपरिणते-न प्रहेष्यामि 10 न नेष्यामीति वा विपरिणाममापन्ने कल्पते । यद्वा तेन तंत्रागच्छता श्रुतम्-यस्य सकाशमहमिदं नयामि स प्रोषितः-ग्रामान्तरं गतः, ततस्तस्मिन् प्रोषिते सति स नेता 'न नयामि' इति विपरिणतः, अत्रान्तरे साधवः समायाताः ततः सागारिकेणादृष्टं कल्पते प्रतिग्रहीतुम्, अत्र सूत्रनिपातः । तथा वक्ष्यमाणसूत्रे भणिष्यमाणायां निर्हतिकायां सागारिकस्य पुरतो गृह्यमाणायां संछोभकः-प्रक्षेपक आदिशब्दाद् निष्काशन-शय्याव्यवच्छेदादयश्च दोषा भवन्ति, 15 अतः सागारिकस्य पुरतः सा न ग्रहीतव्या ॥ ३६३२ ॥ अत्र कथं स तत्राहृतिकां नयन् विपरिणमति ? इत्युच्यते
नीयं पि मे ण घेच्छति, धम्मो व जतीण होति देंतस्स।
वसणऽब्भुदओ वा सिं, भंडणकम्मे व अद्दण्णा ॥ ३६३३॥ भया तत्र नीतमप्येतद् घृतपूरादिकं स न ग्रहीष्यति, यद्वा यतीनामेवंविधै द्रव्यं ददतो 20 मम धर्मो महान् भवति, अथवा येषां समीपे तद् नीयते तेषां खजनमरण-धनहरणादिकं व्यसनं शोककारणमजनिष्ट, 'अभ्युदयो वा' कोऽप्युत्सवविशेषस्तेषां वर्त्तते, 'भण्डनं वा' कलहेस्तदानीं महता भरेण वर्त्तते, 'कर्मणि वा' कृष्यादौ ते 'अन्नाः' अक्षणिकाः सन्ति ततो नीतमपि नामी ग्रहीष्यन्ति ॥ ३६३३ ॥
इति भावम्मि णियत्ते, तेहि अदिट्ठस्स कप्पती गहणं ।।
छेत्तादिणिग्गतेसु व, कप्पति गहणं जहिं सुत्तं ॥ ३६३४ ॥ 'इति' अनन्तरोक्तप्रकारेण भावे निवृत्ते सति येषां समीपे तद् नीयते 'तैः' शय्यातरमानुपैरदृष्टस्य कल्पते ग्रहणम् । यद्वा क्षेत्र-खलादौ निर्गतेषु तेषु ग्रहणं कल्पते । एवं यत्र सूत्रमवतरति स एष विषय उक्त इति ॥ ३६३४ ॥
१°ल्पसूत्राः' अधी° त. डे० ॥ २ तेषां 'प्रकाशः' अर्थः स चेह "भावो जाव न छिज्जह" (गा०३६२३) इत्यादिप्रागुक्तगाथारूपो गृह्यते, सोऽपि भा० ॥ ३ तथा गच्छता भा० कां० विना ॥ ४ या विवाहादिक उत्सव भा० ॥ ५ °हस्तेषां तदानीं भा० ॥६ ताटी.. कां• मो० ले• विनाऽन्यत्र-त्र-खलादिनिर्ग° भा० ।-कालादौ निर्ग त. दे.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org