________________
15
भाष्यगाथाः ३६२१-२७] द्वितीय उद्देशः ।
१००७ खेत्ते वि होति गहणं, अद्दिढे विप्परिणतम्मि ॥ ३६२३ ॥ भावो यावदद्यापि न व्यवच्छिद्यते तावन्न कल्पते । यदा तु 'न नेष्यामि' इति भावः 'विपरिणतः' व्यवच्छिन्नस्तदा क्षेत्रच्छिन्नं मुक्त्वा यदन्यत् क्षेत्रतोऽच्छिन्नं यच्च द्रव्यतः कालतश्च छिन्नमच्छिन्नं वा तद् ग्रहीतुं कल्पते, » क्षेत्रच्छिन्नं तु न कल्पत इति भावः । अथैतदेवापवदति-"खेते वि" इत्यादि । क्षेत्रच्छिन्नस्यापि ग्रहणं भवति यदि स तद् द्रव्यं । नयन्नपान्तराले 'न नेष्यामि' इति विपरिणतो भवति, तच्च सागारिकेण अदृष्टम्- अदृश्यमानं अहीतव्यम् ॥ ३६२३ ॥ यतः
पुरतो पसंग-पंता, अचियत्तं चेव पुव्वभणियं तु ।
बितिय-ततिया उ पिंडो, पढम-चउत्था पसंगेहिं ॥ ३६२४ ॥ __ अथ सागारिकस्य पुरतो गृह्णन्ति ततो भद्रकः प्रसङ्गः तन्निश्रया तत्र प्रक्षेपम्, प्रान्तश्च निष्का-1 शनादिकं कुर्यात् , अप्रीतिकं च पूर्वभणितं तस्य तथापश्यतो गृह्यमाणे भवति, ततः पुरतो न ग्रहीतव्यम् । तथा द्वितीय-तृतीयौ भङ्गो शय्यातरपिण्ड इति कृत्वा परिहर्त्तव्यौ । प्रथम चतुर्थी तु न शय्यातरपिण्डः, परं प्रसङ्गदोषभयात् तावपि परिहर्तव्यौ ।। ३६२४ ॥ अथाचार्यों विनेयवर्गव्युत्पादनार्थमाक्षेप-परिहारौ निरूपयितुकाम इदमाह
कप्पइ अपरिग्गहिया, णिक्खेवे चउ दुगं अजाणंता ।
जाणंता वि य केई, सम्मोहं काउ लोभा वा ॥ ३६२५ ॥ केचिदाचार्या निक्षेपचतुष्कस्य-'द्रव्यतः प्रतिगृहीता न भावतः' इत्यादिलक्षणभङ्गचतुष्टयस्य 'द्विकं' प्रथम-चतुर्थभङ्गद्वयमाश्रित्येदं सूत्रं प्रवृत्तमित्येवंविधमर्थमजानन्तः, यद्वा जानन्तोऽपि तदर्थ केचिदगीतार्थानां सम्मोहं कृत्वा लोभाद् ब्रुवते-कल्पते सागारिकेणापरिगृहीता आहृतिका ॥ ३६२५ ॥ इदमेव स्पष्टयति__ जं आहडं होइ परस्स हत्थे, जं णीहडं वा वि परस्स दिन्न ।
तं सुत्तछंदेण वयंति केई, कप्पं ण चे सुत्तमसुत्तमेवं ॥ ३६२६ ॥ यद् 'आहृतकं' प्रहेणकं शय्यातरगृहमानीयमानं परस्य हस्ते भवति, एतेन प्रस्तुतमेव सूत्रं गृहीतम् ; यच्च 'निहतं' सागारिकगृहाद् निष्काशितं परस्य दत्तम् , अनेन च वक्ष्यमाणं सूत्रमुपात्तम् ; तदेवंविधं द्रव्यं 'सूत्रच्छन्देन' सूत्राभिप्रायेण 'कल्प्यं' कल्पनीयम् 'न' नैव 'चेद' 25 यदि आचार्य ! एवमस्मदुक्तं मन्यसे ततः सूत्रमसूत्रमेव प्राप्नोति, अप्रमाणमित्यर्थः । एवं केचिदाचार्यदेशीया वदन्ति ॥ ३६२६ ॥ अत्र सूरिः प्रतिवचनमाह
सुतं पमाणं जति इच्छितं ते, ण सुत्तमत्थं अतिरिच्च जाती।
अत्थो जहा पस्मति भृतमत्थं, तं सुत्तकारीहिँ तहा णिबद्धं ॥३६२७॥ यदि 'ते' तव सूत्रं प्रमाणत्वेन 'इष्टम्' अनुमतं तत इदमप्यक्षिणी निमील्य विचारयतु 30 देवानांप्रियः-सूत्रं तावद् 'अर्थ' व्याख्यानमतिरिच्य 'न याति' न प्रवर्त्तते, नायवुध्यते
२ अद्दिष्टं विप्प तामा० ॥ २॥ एतचिह्नमध्यवर्ती पाठः भा० कां० एव वर्त्तते ॥ ३र्थः ॥ ३६२६ ॥ एवमाचार्यदेशीयेनोक्ते सूरिः भा० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org