________________
१००६ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [आहृतिका० सूत्रम् १७ ऽगृहीतत्वात् । परमत्र पुनर्भद्रक-प्रान्तदोषा भवन्ति, भद्रकस्तन्निश्रया प्रक्षेपं प्रान्तस्तु निष्काशन• वसतिव्यवच्छेदादिकं कुर्यादिति भावः । अप्रीतिकं चैवं गृह्यमाणे भवति-किमेष मदीयः पिण्डो न भवति येनैवममी इदं गृह्णन्ति ? ॥ ३६१९ ॥
- तथा सा भगिनी यदा कमपि दलन-पेषणादिव्यापारं कुर्वाणा मृत्तिकया वा अशुच्या वा 5 लिप्तहस्ता भवति तदा ब्रवीति-स्थापय त्वममुकत्र प्रदेशे, एषा भावतः प्रतिगृहीता न द्रव्यत इति द्वितीयो भङ्गः । तृतीये तु भङ्गे 'द्वाभ्यामपि' द्रव्य-भावाभ्यां प्रतिगृहीता । चतुर्थभङ्गे 'द्वाभ्यामपि' द्रव्य-भावाभ्यां प्रतिषेधः । किमुक्तं भवति ?-सा भगिनी रुष्टा सती बलादlमाणामपि तां भर्जिका हस्ताभ्यामपि न स्पृशतीति । सा चाहृतिका द्रव्य क्षेत्र-काल-भावभेदात्
चतुर्विधा । पुनरेकैका द्विविधा-छिन्ना अच्छिन्ना च ॥ ३६२० ॥ अर्थता एव भावयति10. संकप्पियं व दव्वं, दिट्ठा खेत्तेण कालतो छिन्नं ।
दोसु उ पसंगदोसा, सागारिऍ भावतो दुविहो ॥ ३६२१ ॥ - यद् द्रव्यं सङ्कल्पितम् , यथा-अमुकं घृतपूरादिकं तत्र गृहे नेतव्यम् , वाशब्दस्यानुक्त
प्रकारान्तरद्योतकत्वाद् यद् वा तत्र गृहे नयनाथ पृथक् स्थापितम् , तदुभयमपि द्रव्यतश्छिन्नम् । __ या पुनराहृतिका खगृहमानीयमाना सागारिकेण दृष्टा सा क्षेत्रतश्छिन्ना । तथा 'अमुकस्यां . 15 वेलायां नेतव्यम्' इति निर्दिष्टं द्रव्यं कालतश्छिन्नम् । उपलक्षणमिदम् , तेने 'न नेष्यामि' इति
यत्र भावो निवृत्तस्तद् भावतश्छिन्नम् । अच्छिन्ना त्वाहृतिका चतुर्दाऽप्येतद्विपरीता । तथा 'द्वयोर्भङ्गयोः', 'द्रव्यतः प्रतिगृहीता न भावतः, नापि द्रव्यतो नापि भावतः प्रतिगृहीता' इत्येवंलक्षणयोः न सागारिकपिण्डः, परं प्रसङ्गदोषान्न गृह्यते । "भावउ' त्ति 'भावतः प्रतिगृहीता न
द्रव्यतः' इत्येवंरूपो यो भङ्गः, यश्च 'द्रव्यतोऽपि भावतोऽपि प्रतिगृहीता' इत्येवंलक्षणो द्विविधः 20 प्रतिगृहीतो भङ्गः, एतयोः सागारिकपिण्ड इति कृत्वा न कल्पते ॥ ३६२१ ॥
अथैनामेव नियुक्तिगाथां व्याचष्टे
संकप्पियं वा अहवेगपासे, सगारिदि8 अमुगं तु वेलं ।
नियट्ट भावे नऽमुगं अदिट्ठा, काले ण निद्देस अछिन्न भावे ॥ ३६२२ ॥
यद् घृतपूरादि तत्र गृहे नयनाय सङ्कल्पितम् , अथवा यदेकपाधै विश्वक् स्थापितं तदेतद् 25 द्रव्यतश्छिन्नम् । सागारिकेण खगृहमानीयमानं यद् दृष्टं तत् क्षेत्रतश्छिन्नम् । 'अमुकस्यां' मध्याह्रादिलक्षणायां वेलायां नेतव्यमिति निर्दिष्टं कालतश्छिन्नम् । यत्र तु 'न नेष्यामि' इति भावो निवृत्तस्तद् भावतश्छिन्नम् । एवं चतुर्दाऽपि छिन्नं व्याख्यातम् । अथाच्छिन्नं व्याख्याति"नऽमुगं" इत्यादि । यद् द्रव्यममुकं नेतव्यमिति न सङ्कल्पितं न वा पृथक् स्थापितं तद् द्रव्यतोऽच्छिन्नम् । या वा आहृतिका सागारिकेणानीयमाना न दृष्टा तत् क्षेत्रतोऽच्छिन्नम् । 30 कालेऽच्छिन्नं यत्र प्रतिनियताया वेलाया निर्देशो नास्ति । भावेऽच्छिन्नं तु यत्राद्यापि 'नेष्यामि' इति भावोऽव्यवच्छिन्नः, न निवर्तते इत्यर्थः ॥ ३६२२ ॥ अथात्रैव ग्रहणविधिमाह
भावो जाव न छिज्जइ, विप्परिणय गेण्ह मोत्तु खेत्तं तु । १ तेन 'नेष्यामि' भा० कां० विना ॥ २ खेत्तम्मि ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org