________________
भाष्यगाथाः ३६१४-२०] द्वितीय उदेशः !
१०६५ तसूत्रम् , मध्ये आहृतसूत्रम् , अवसाने तु भूयोऽपि निहतसूत्रम् ; एष ईदृशः सम्बन्धः सहशपूर्वापरसूत्रद्वयेन सन्दंशकेनेव गृहीतत्वात् सन्दष्टक इत्यभिधीयते । अनेन वक्ष्यमाणसूत्रस्याप्यत्रैव सम्बन्धोऽभिहित इति ॥ ३६१६ ॥ । अनेन सम्बन्धेनायातस्यास्य व्याख्या---'आहृतिका' प्रहेणकं सा सागारिकस्य गृहे कुतोऽपि गृहान्तरादागता, सा च सागारिकेण 'प्रतिगृहीता स्वीकृता, 'ततः' तस्या मध्याद दद्याद नो । "से" तस्य साधोः कल्पते प्रतिग्रहीतुम् । सागारिकस्याहृतिका सागारिकेण 'अप्रतिगृहीता' न खीकृता तस्या मध्याद् दद्यादेवं "से" तस्य साधोः कल्पते प्रतिग्रहीतुमिति सूत्रसङ्गेपार्थः ।। साम्प्रतं नियुक्तिविस्तरः
आहडिया उ अभिघरा, कुलपुत्तग भगिणि मट्टिगालित्ते । . दवे खेत्ते काले, भावम्मि य होइ आहडिया ॥ ३६१७ ॥ 10 अभिशब्दोऽत्र पृथगर्थवाचकः । ततश्च 'अभिगृहाद्' अपरस्माद् वेश्मनो यद् विशिष्टं खाद्यकद्रव्यमागतं सा आहृतिका भण्यते । सा चैवं सम्भवति-कश्चित् कुलपुत्रकः कचिद् ग्रामे परिवसति, तस्य चान्यदा प्राघूर्णकः समायातः तदर्थे विविधमतिशायि द्रव्यमुपस्कृतम्, कुलपुत्रस्य च भगिनी तत्रैव ग्रामे परिणीता तदर्थ खकीयभार्याहस्ते घृतपूरादिकं प्रेषयति, सा च भगिनी तदानीं मृत्तिकालिप्तहस्ता ततस्तां भ्रातृजायां ब्रवीति-स्थापय त्वमिदममुकत्र प्रदेशे, 15 अहमिदानीमक्षणिका तिष्ठामीति । सा चाहृतिका चतुर्दा, तद्यथा-द्रव्याहृतिका क्षेत्राहतिका कालाहृतिका भावाहृतिका चेति ॥ ३६१७ ॥ अथैनामेव नियुक्तिगाथां विवरीषुराह
आएसट विसेसे, सति काले भगिणि संभरित्ताणं ।
भजि भजाहत्थे, कुलओ पेसेति भगिणीए ॥ ३६१८ ॥ आदेशः-प्राघूर्णकस्तदर्थ घृतपूर-लपनश्रीप्रभृतेः खाद्यकद्रव्यस्य विशेष सञ्जाते सति 'काले' 20 भोजनदेशकाले भगिनी संस्मृत्य भार्याहस्ते 'भर्जिकां' प्रहेणकं 'कुलजः' कुलपुत्रको भगिनीनिमित्तं प्रेषयति एषा आहृतिकोच्यते । अस्यां च चत्वारो भङ्गाः, तद्यथा--द्रव्यतः प्रतिगृहीता न भावतः १ भावतः प्रतिगृहीता न द्रव्यतः २ द्रव्यतोऽपि भावतोऽपि प्रतिगृहीता ३ नापि द्रव्यतो नापि भावतः प्रतिगृहीता ४ ॥ ३६१८ ॥ एषां यथाक्रमं भावनामाहउच्छंगें अणिच्छाए, ठविया दव्यगहिया ण पुण भावे ।
25 एत्थ पुण भद्द-पंता, अचियत्तं चैव घेप्पंते ॥ ३६१९ ॥ वावार मट्टिया-असुइलित्तहत्था उ बिइयओ भंगो।
दोसु वि गहिए तइओ, चउत्थभंगे उ पडिसेहो ॥ ३६२० ॥ यदर्थं सा भर्जिका प्रेषिता सा भगिनी तं भ्रातरं प्रति केनापि कारणेन रुष्टा सती भ्रातृजायया समर्प्यमाणामपि तां न गृह्णाति, ततस्तया ननान्दुरुत्सङ्गेऽनिच्छयाऽपि सा भर्जिका 30 स्थापिता, एषा द्रव्यतः प्रतिगृहीता न पुनर्भावतः । इयं च शय्यातरपिण्डो न भवति, भावतो
१ "आएसट्टऽइसेसे" इति पाठः चूर्णी विशेषचूर्णौ च । तथाहि-"पाहुणगस्स अट्ठाए अतिसेसगं दव्वं खज्जगादि कतं" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org