________________
१००२ सनियुक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [सागारिक० सूत्रम् १६ रोगादिविकारकारकमित्यर्थः, तत्रात्मविराधना । 'यत्र वा' भूभागे तद् द्रव्यं प्रक्षिपन् प्रमादतः छर्दयति तत्र षट्कायविराधना ॥ ३६०५ ॥ अथ "तेणा चारमडा वा, कम्मबंधे पसज्जणया ॥" (गा० ३६०४) इति व्याचष्टे
तं तेण छूढ़ तहिगं च पत्ता, तेणा भडा घोड कुकम्मिगा य । 5 आसत्त णामट्टित आउ मंसा, ण जिण्णऽणादेस ण जा विउट्टे ॥ ३६०६॥
'तद्' द्रव्यं 'तेन' संयतेन 'तत्र' भाजने प्रक्षिप्तम् , तत्र च प्राप्ताः 'स्तेनाः' चौराः 'भटाः' राजपुरुषाः 'घोटाः' पञ्चालचट्टाः 'कुकर्मिणश्च' कुकर्मकारिणः एते तद् भाजनमुत्कृष्टशालिदाल्यादिद्रव्यभूतमपहृत्य गच्छेयुः । तत्र केचिदाचार्यदेशीया ब्रुवते-यावत् तेषामासप्तमं
कुलमनुवर्तते तावत् तस्य संयतस्य कर्मबन्धः । अपरे—तेषां यावद् नाम-गोत्रमनुवर्तते । 10 अन्ये-यावत् तेषामस्थीनि सन्ति । अपरे पुनराहुः-यावत् ते आयुर्धारयन्ति । एके भणन्तियावत् तेषां तद्रव्याभ्यवहारप्रत्ययो मांसोपचयः । अन्ये तु ब्रुवते-यावत् तेषां तद् भक्तं भुक्तं सद् नाद्यापि जीर्णं तावत् प्रतिसमयं तस्य कर्मबन्धः । सूरिराह-एते सर्वेऽप्यनादेशाः। सिद्धान्तपक्षः पुनरयम्-यावदसौ संयतः 'न व्यावर्त्तते' न तस्मात् स्थानादालोचनाप्रदानादिना
प्रतिक्रामति तावत् कर्मबन्धो मन्तव्यः ॥ ३६०६ ॥ किञ्च15 णिच्छंति व मरुगादी, ओभावण जं च अंतरायं तु ।
कुजा व पच्छकम्म, पवत्तणं घाय बंधं वा ॥ ३६०७॥ संयतेन स्पृष्टमिति कृत्वा तद् भक्तं मरुकादयो भोक्तुं नेच्छन्ति । ततश्च 'अहो ! अमी अशुचयो यैः स्पृष्टमन्नमुच्छिष्टमिति कृत्वा ब्राह्मणादयो न भुञ्जते' इति महती साधूनामपभाजना स्यात् । यच्च मरुकादीनां तद् भक्तमभुञ्जानानामन्तरायं तन्निप्पन्नं प्रायश्चित्तम् । पश्चात्कर्म वा 20 स गृहपतिः कुर्यात्, मरुकादिभोजनार्थं भूयोऽप्यभिनवं भक्तपाकं कार
येदिति भावः । यद्वा 'साधुभिरिदं पवित्रीकृतम्' इति मत्वा भद्रकास्तस्यान्नादेः स्वगृहे प्रवर्तनं कुर्युः । अथ ते प्रान्तास्ततो घातं वा बन्धं वा कुपिताः सन्तः संयतानां कुर्युः ॥ ३६०७ ॥ ___एते तावत् स्वयं करणे दोपा अभिहिताः । अथ स्वयं संसृष्टं कर्तुमसमर्थी अन्यैः कारयन्ति यो बा कोऽप्यन्यः प्रक्षिपति तमनुमोदयन्ति तत इमे दोषाः
कारावणमण्णेहिं, अणुमोदण उम्हमादिणो दोसा ।
दुविहे वतिकमम्मि, पायच्छित्तं भवे तिविहं ॥ ३६०८ ॥ ___ अन्यैः कारापणे कुर्वतो वा अनुमोदने उष्मादयो दोषा भवन्ति । उष्मा नाम-तेनात्युष्णद्रव्येण तस्य अगारिणो हस्तादौ परितापः, आदिशब्दाद् यदीयं द्रव्यमसौ तत्र प्रक्षिपति स तेन
सहासङ्खडं कुर्यात् – कस्मान्मदीयं म्पृशसि ? इति । एवमादयो दोषाः । अत्र च 'द्विविध 30 व्यतिक्रमे लौकिक-लोकोतरिकमर्यादातिकनरूपे प्रायश्चित्तं त्रिविधं भवति । तत्रैकं स्वयं करणे, द्वितीयं कारापणे, तृतीयमनुमताविति ॥ ३६०८॥ इदमेवोत्तरार्द्ध व्याचष्टे
लोउत्तरं च मेरं, अतिचरई लोइयं च मेलंतो। अहवा सयं परेहि य, दुविहो तु वतिक्कमो होति ॥ ३६०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org