SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३५९९-३६०५] द्वितीय उद्देशः । यत् पुनः 'तेन' सागारिकेणादृष्टस्यासंसृष्टस्यापि "दुघाणे" दुर्भिक्षे संस्तरणाभावाद् ग्रहणं क्रियते तत्र 'तानि' शय्यातरमानुषाणि गत्वा शय्यातरस्य कथयेयुर्न वा; कथितेऽपि 'न च' नैव 'तत्र' दुर्भिक्षे शय्यातरस्य तथाविध आदरो भवति, येन भूयः सङ्खडी कुर्यादिति भावः ॥३६०२॥ सूत्रम् जो खलु निग्गंथो वा निग्गंथी वा सांगारियपिंडं बहिया नीहडं असंसटुं संसटुं करेइ, करेंतं वा साइजइ, से दुहओ वीइक्कममाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं १६ ॥ यः खलु निम्रन्थो निर्ग्रन्थी वा सागारिकपिण्डं बहिर्निर्गतमसंसृष्टं संसृष्टं करोति, कुर्वन्तं वा 'खादयति' कारयति कुर्वन्तमनुमन्यते वेत्यर्थः, सः 'द्विधा' लौकिक-लोकोत्तरिकभेदाद् द्विप्र-10 कारां मर्यादा व्यतिक्रामन् आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् , चतुरो गुरुमासानित्यर्थः । एष सूत्रसङ्केपार्थः ॥ अथ भाष्यविस्तरः संसहस्स उ करणे, चउरो मासा हवंतऽणुग्घाता। आणादिणो य दोसा, विराहणा संजमा-ऽऽदाए ॥ ३६०३ ॥ असंसृष्टमस्माकं ग्रहीतुं न कल्पत इति कृत्वा यदि संसृष्टं करोति, तुशब्दस्यानुक्तसमुच्चया-15 र्थत्वात् कारयति वा कुर्वन्तमनुमोदयति वा, ततश्चत्वारो मासा अनुद्धाताः प्रायश्चित्तं भवति, आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया ॥ ३६०३ ॥ सयमेव उ करणम्मी, उदगप्फुस भंडणुण्हवण पंते । तेणा चारभडा वा, कम्मबंधे पसजणया ॥ ३६०४ ॥ खयमेव करणे तावदिमे दोषाः---'संयतेनाशुचिना स्पृष्टमिदं भाजनम्' इति विचिन्त्य 20 उदकेन स्पर्शनं-प्रक्षालनम् , तथा 'किमस्मदीयानि भाजनानि स्पृशसि ?' इति 'भण्डनं' कलहम् , "उण्हवण' ति तेषां भाजनानाममिकायेनाङ्गारणम् , एतानि प्रान्ताः सङ्खडिकारिणः कुर्वन्ति । तथा 'स्तेनाः' चौराः 'चारभटाः' राजपुरुषा एते तत्रागत्य तं संयतसंसृष्टं पिण्डं अपहरेयुः, ततश्च कर्मबन्धस्य प्रसजना भवति यावदसौ संयतो भूयो नावर्त्तते॥३६०४॥ किञ्चभिंदेज भाणं दवियं व उज्झे, डज्झेज उण्हेण कडी व भुजे। 25 संसत्तगं तं व जहिं व छुन्भे, विरोहि दव्वं व जहिं व छड्डे ॥ ३६०५॥ संयतः सागारिकपिण्डमन्यत्र प्रक्षिपन् तद् भाजनं प्रमादतो भिन्द्यात् , तत्र पश्चात्कर्मा-ऽन्यप्रवाहनादयो दोषाः । यद्वा तत्र भाजने यद् 'द्रव्यं' शालि-दाल्यादि तद् अन्यत्र सञ्चारयन् 'उज्झेत्' परित्यजेत् । अथवा तद् द्रव्यमतीवोष्णं तेनासौ दह्येत, कटी वा तथाकुर्वतो 'भुज्येत' वक्रीभवेत् । यत्र वाऽसौ सागारिकपिण्डं प्रक्षिपति 'तद्' द्रव्यं 'संसक्तं' जन्तुसंसक्ति- 30 युक्तम् , ततः संयमविराधना । विरोधि वा तद् द्रव्यम् , प्रक्षेपणीयद्रव्येण सह भुज्यमानं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy