________________
१०००
सनिर्युक्तिघुमाप्य वृत्तिके वृहत्कल्पसूत्रे [ सागारिक० सूत्रम् १६
सागारिकं वर्जयित्वा शेषकुटुम्बेन दृष्टस्यं संसृष्टपिण्डस्य ग्रहणमनुज्ञातम् । अथ ते साधवो ग्रामान्तरं प्रस्थिताः ततः सागारिकेणापि दृष्टस्य संसृष्टस्य वा असंसृष्टस्य वा वाटकस्यान्तर्वा बहि सर्वत्र ग्रहणमनुज्ञातम्, पुनर्ग्रहणाभावेन भद्रक-प्रान्तदोषाणामभावात् ॥ ३५९८ ॥ पाहुण्या वा बाहिं, घेत्तुमसंसगं च वर्चति ।
अंतो वा उभयं पी, तत्थ पसंगादओ गत्थि || ३५९९ ।।
5
अथवा प्राघुणकाः साधवः केचित् तत्र समायाताः, ते च तं ग्रामं व्यतीत्याग्रतो गन्तुकामाः वाटकाद् बहिर्निष्क्रामितं निसृष्टमनिसृष्टमपि गृहीत्वा समुद्दिश्य च व्रजन्ति । तदभावे 'अन्तः' वाटकाभ्यन्तरे वर्त्तमानमुभयमपि प्राघुणकाः साधवो गृह्णन्ति, प्रथमं संसृष्टं तदप्राप्तावसंसृष्टमपीत्यर्थः । कुतः ? इत्याह- 'तत्र' एवंविधे प्राघुणकानां ग्रहणे प्रसङ्गादयो दोषाः भद्रक - प्रान्तकृताः पुनर्ग्रहणाभावान्न सन्ति । प्रसङ्गो नाम - तन्निश्रया भूयः सङ्खडीकारापणम्, आदिशब्दाद् निष्काशनादिपरिग्रहः || ३५९९ ॥
10
अँथ “संसट्टमणुण्णायं" ( गा० ३५९६ ) इत्यादिपदानां भावार्थं गाथात्रयेणाह - जो उ महाजणपिंडेण मेलितो बाहि सागरिय पिंडो ।
तस्स तहिं अपभुत्ता, पण होति दिट्ठे वि अचियत्तं ॥ ३६०० ॥ जं पुण सिं चिय भायणेसु अविमिस्सियं भवे दव्वं ।
तं दिस्समाण गहियं, करेज अप्पत्तियं पभुणो ॥ ३६०१ ॥
जं पुण तेण अदिट्ठे, दुघाण गहणं तु होतऽसंसट्टे । तहियं ताणि कधिजा, ण यावि ण य आयरो तत्थ || ३६०२ ॥
यस्तु सागारिकपिण्डो महाजनपिण्डेन सह वाटकाद् बहिर्मीलितः स साधूनां कल्पते । 20 कुतः ? इत्याह—‘तस्य' सागारिकस्य तत्राप्रभुत्वाद् महाजनस्यैव च प्रभुत्वाद् दृष्टेऽपि सागार - कस्य नाप्रीतिकं भवति ॥ ३६०० ॥
यत् पुनर्द्रव्यं 'तेषामेव' शय्यातरमानुषाणां भाजनेषु 'अविमिश्रितम्' असंसृष्टं भवति तद् दृश्यमानं गृहीतं सत् 'प्र
'भोः' शय्यातरस्याप्रीतिकं कुर्याद् अतो न ग्राह्यम् ॥ ३६०१ ॥
15
१ स्य पिण्ड' भा० ॥ २
देवकुलिकाया मुद्यानादिषु सर्वत्र कां० ॥
३ “बहिया उ असंसट्टे॰" गा० ३५९६ तः आरभ्यैताश्चतस्रो गाथाः पुरातना इति चूर्णिकृतो विशेष चूर्णिकृतश्वाभिप्रायः । तथाहि तद्वचनम् — “ एताओ पुराणियाओ गाहाओ, एतासि इमाओ विभासागाधाओ - जो तु महा० गाधाश्रयम् ।" इति ॥
४
एतादृग् हस्तचिह्नमध्यवर्ती ( इस आरभ्य ३६०७ गाथाटी कान्तर्गतहस्त चिह्नं यावत् ) समग्रोऽप्ययं ग्रन्थसन्दर्भः भा० प्रति विहायास्मत्पार्श्ववर्त्तिनीषु सर्वास्वपि प्राचीनासु प्रतिषु नास्ति, किं बहुना ? ताडपत्रीय प्रतावप्ययं पाठो न विद्यते । सम्भावयामश्च वयम् - यदुत ज्ञानकोशगतेषु निखिलेष्वप्यर्वा चीनप्राचीन कल्पटीकादर्शेषु नैवायं प्रन्यसन्दर्भो भूम्ना भविष्यतीति । अस्मत्स विधवर्तिनीषु भा० प्रतिवर्जितप्रतिषु सत् प्र [.........]येदिति भावः इति रूपः पाठो बर्त्तते । सम्भाव्यते किल-सत् प्र इति पाठानन्तरवर्ति मूलप्रतिगतमेकं तालपत्रमकल्पनीयेन केनचित् प्रमाददोषेण भ्रष्टमिति तत्परम्परा विश्वेष्वप्यादर्शेष्ववतीर्णेति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org