________________
९९८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिक० सूत्रम् १५ एवं चिन्ता समुत्पद्यते, यथा—'को जानाति' को नामामुमथ सम्यग् वेति किम् एते' साधव इदं शय्यातरसत्कमाहारजातं ग्रहीतुं नेच्छन्ति ? ॥ ३५८९ ॥
नूणं से जाणंति कुलं व गोतं, आगंतुओ सो य तहिं सगारो।
- भूणग्घऽसोयं व ततो चएवि, जं अम्ह इच्छंति ण सेजदातुं ॥ ३५९० ॥ । नूनं "से" तस्य शय्यास्वामिनो जानन्त्यमी कुलं वा गोत्रं वा, यथाऽयं नीचकुलोत्पन्नो हीनगोत्रो वेति । स च सागारिकः तत्र' ग्रामादावागन्तुकः अतो न तदीयं कुलादि तत्र कोऽपि वेत्ति । यद्वा ते गृहस्थाश्चिन्तयेयु:--'भ्रूणनः' बालमारकोऽयं शौचं वा-शुचिसमाचारतारूपमस्य नास्ति, तेत एतदीयं पिण्डं त्यक्त्वा • यदमी अम्माकं चोल्लकं ग्रहीतुमिच्छन्ति,
न शय्यादातुः सम्बन्धिनम् ॥ ३५९० ॥ ततः सागारिक इत्थं चिन्तयेत्10 ओभामिओ णेहि सवासमझे, चंडालभूतो य कतो इमेहि ।
गेहे वि णिच्छंति असाधुधम्मा, अतो परं किं व करेज अण्णं ॥ ३५९१ ॥ अपभ्राजितोऽहम् 'अमीभिः' श्रमणकैः ‘खवासमध्ये' स्वकीयसहवासिजनमध्ये, चाण्डालभूतश्च कृतोऽहममीभिर्मुण्डैः, गेहेऽपि च मदीये नेच्छन्त्यमी असाधुधर्माणः पिण्डं ग्रहीतुम् ,
अतः परं किं वा मम 'अन्यद्' अपरं कुर्युः ? यत् कर्तुं योग्यं तदमीभिः कृतमिति भावः 15॥ ३५९१ ॥ ततश्च
राओ दिया वा वि हु णेच्छुभेजा, एगस्सऽणेगाण व सेजछेदं ।
अद्धाण णिता व अलंमें जंतू, पावेज तं वा वि अगिण्हमाणा ॥ ३५९२ ॥ रात्रौ वा दिवा वा साधून प्रतिश्रयाद् निष्काशयेत् । 'एकस्य वा' तस्यैव गच्छस्य 'अनेकेषां वा' बहूनां गच्छानां शय्यादानव्यवच्छेदं कुर्यात् । ततोऽध्वनि वहमाना निर्गच्छन्तो वा 20साधवस्तदीयदोषेण वसतिमलभमाना यत् परितापनादिकं प्रामुयुः तत् ते शय्यातरचोल्लकमगृह्णानाः प्रामुवन्ति, तन्निष्पन्नं तेषां प्रायश्चित्तमिति भावः ॥ ३५९२ ॥ एवमसंसृष्टपिण्डविषया दोषा उक्ताः । अथ संसृष्टपिण्डविषयानाह
संसहस्स उ गहणे, तहियं दोसा इमे पसजंति ।
तण्णीसाएँ अभिक्खं, संखडिकारावणं होजा ॥ ३५९३ ॥ 25 यद्यन्यदीयचोल्लकैः संसृष्टं सागारिकपिण्डं गृह्णन्ति तदा तत्रैते दोषाः प्रसजन्ति-'तन्निश्रया' 'यद्यन्यदीयपिण्डसंसृष्टो मदीयः पिण्डो अमीषां कल्पते तत इत्थं कृत्वा भूयो भूयो दापयिज्यामि' इत्यालम्बनेन वाटकवास्तव्यजनैरभीक्ष्णं सङ्खडीकारापणं भवेत् ॥ ३५९३ ॥
अलऽम्ह पिंडेण इमेण अजो!, भुजो ण आणेति जहेस इत्थं ।
साहू ण इच्छंति इमस्स दोसा, अम्हे वि वजेमु ण को वि एस ॥ ३५९४ ॥ 30 अथ भूयो यथैष सागारिकोऽत्र पिण्डं नानयतीत्येवमर्थं साधवो गृहस्थान् ब्रुवते-आर्याः !
अलमस्माकमनेन संसृष्टपिण्डेनेति । ततस्तेऽगारिणश्चिन्तयेयु:-अस्य सागारिकस्य दोषाद् यदि साधवोऽमुं पिण्डं नेच्छन्ति ततो वयमपि दान-ग्रहणादिव्यवहारमनेन सह वर्जयामः, यतो १ - एतदन्तर्गतः पाठः भा० नास्ति ॥
२ भूओ तामा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org