________________
भाप्यगाथाः ३१८२-८९] द्वितीय उद्देशः ।
अंतो नूण न कप्पइ, कप्पइ णिक्खामिओ हु मा एवं ।
पत्तेय विमिस्सं वा, पिंडं गेण्हेजस्तो सुत्तं ॥ ३५८५॥ नूनम् 'अन्तः' गृहाभ्यन्तरे शय्यातरपिण्डो न कल्पते, गृहाद् बहिर्निप्कामितस्तु कल्पते । एवं विचिन्त्य मा 'प्रत्येकम्' असंसृष्टं 'विमिश्रं वा' संसृष्टं पिण्डं गृह्णीयात् , अत एतत् सूत्रमारभ्यते । वक्ष्यमाणसूत्रद्वयस्याप्ययमेव सम्बन्धो द्रष्टव्यः ॥ ३५.५ ।।। __ अनेन सम्बन्धेनायातस्यास्य व्याख्या–नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा सागारिकपिण्डं बहिर्वाटकाद् 'अनिहतम्' अनिष्कामितम् 'असंसृष्टं वा' अन्यदीयपिण्डैः सहामीलितं 'संसृष्टं वा' अन्यदीयपिण्डैः समं मीलितं प्रतिग्रहीतुमिति सूत्रार्थः ।। अथ भाष्यविस्तरः
_वाडगदेउलियाए, इच्छा देतम्मि गहण तह चेव ।
णीसट्ठमणीसट्टे, गहणा-ऽगहणे इमे दोसा ॥ ३५८६ ॥ 10 शय्यातरवाटकस्य मध्ये काचिद् देवकुलिका तस्या यद् वानमन्तरं तदर्थ वाटकवास्तव्या अगारिणः सङ्खडी कुर्वन्ति । तत्र च भिक्षाचरेभ्यो दातुं तेषामिच्छा समजनि । ततो वाटकवास्तव्यजने 'ददति' दातुमुपस्थिते ग्रहणं तथैव मन्तव्यं यथा पूर्वसूत्रे अभिहितम् । तथा निसृष्टं नाम-यद् बल्यादिकं वानमन्तरस्य निवेदितम् , अनिसृष्टं तु तद्विपरीतम् , तयोर्ग्रहणेऽग्रहणे च 'अमी' वक्ष्यमाणा दोषा भवन्तीति सङ्ग्रहगाथासमासार्थः ॥३५८६॥ अथैनामेव विवृणोति-15
उप्पत्तियं वा वि धुवं व भोजं, तस्सेव मज्झम्मि उ वाडगस्स ।
अमिस्सिते सागरिचोल्लगम्मि, अण्णेहिं सो चेव उ तस्स पिंडो॥ ३५८७॥ 'तस्यैव' सागारिकसत्कस्य वाटकस्य मध्ये वानमन्तरमुद्दिश्य 'भोज्यं' सङ्खडिर्भवेत् , तच्चीत्पत्तिकं वा स्याद् ध्रुवं वा । औत्पत्तिकं नाम-पर्वतिथिमन्तरेणाकस्मिकम् । ध्रुवं तु-पर्वतिथिभावि, यथा नवम्यां दशम्यां वा । तत्रान्यैश्चोल्लकैः समममिश्रितो यः सागारिकचोल्लकस्तस्मिन् 20 सङ्खड्यां दीयमाने स एव तस्य शय्यातरस्य पिण्डो भवति ॥ ३५८७ ॥ - अस्य निवेदितस्यानिवेदितस्य वा ग्रहणे तावदिमे दोषाः
भद्दो तन्नीसाए, पंतो घेप्पते ददृणं भणइ ।
अंतोघरे ण इच्छह, इह गहणं दुट्टधम्मो त्ति ॥ ३५८८॥ यः सागारिको भद्रकः सः 'तन्निश्रया' वानमन्तरनिवेदनाव्याजेनान्यदप्यात्मीयमाहारजातं 25 तत्र प्रक्षिपेत् । यस्तु प्रान्तः स तथा गृह्यमाणं दृष्ट्वा भणति-'अन्तर्गृहे' गृहाभ्यन्तरे दीयमानं मदीयं पिण्डं नेच्छथ, इह पुनरेवं दीयमानस्य ग्रहणं कुरुथ, अहो! दुष्टधर्माणो यूयमिति ॥ ३५८८ ॥ तथैतदोषभयान्न गृहन्ति ततः किं भवति ? इत्याह
तेसु अगिण्हंतेसु य, तीसे परिसाएँ एवमुप्पजे ।
को जाणइ किं एते, साहू घेत्तुं ण इच्छंति ॥ ३५८९ ॥ 'तेषु' साधुषु तं शय्यातरसत्कं निवेदनापिण्डमगृहानेषु 'तस्याः' सङ्खडिकारिण्याः पर्षद १ मा० कां० विनाऽन्यत्र-सह मी त• । सम्मी ताटी• मो• ले. डे० ॥ २ "नियुक्तिविस्तरः-वाडग• गाधा" इति चूर्णौ ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org