________________
९९६
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिक० सूत्रम् १४ सति मा भूवन्' इति कृत्वा शय्यातरस्य पश्यतः सोऽपि वर्जनीयः ॥ ३५८१ ॥ अथ यदुक्तं सूत्रे-“एगं तत्थ कप्पागं ठवइत्ता अवसेसे निबिसिज्जा" तदेतद् विभावयिपुराह
एगं ठवें णिव्विसए, दोसा पुण भद्दए य पंते य ।
णिस्साए वा छुमणं, विणास.गरहं व पार्वति ॥ ३५८२ ॥ 5 यद्यनेकेषु शय्यातरेषु निष्कारणे एकं सागारिकं स्थापयन्ति शेषान् 'निर्विशन्ति' उपभुञ्जते ततो भद्रक-प्रान्तविषया दोषा भवन्ति । भद्रको निर्विश्यमानशय्यातरस्य निश्रया तदीयभक्त-पानमध्ये प्रक्षेपं कुर्यात् , 'मम गृहे तावदमी न गृह्णन्ति अतो मदीयमिदं भवद्भिः संयतानां दातव्यम्' इति कृत्वा । यस्तु प्रान्तः स एक एव स्थाप्यमानः प्रद्वेषं यायात् , प्रद्विष्टश्च वसतेनिष्काशनं कुर्यात् , निष्काशिताश्च स्तेन-श्वापदादिभिर्विनाशं लोकाद् वा गर्हामासादयन्ति । 10 कारणे पुनरेकमपि स्थापयन्तो निर्दोषाः ॥ ३५८२ ॥ कथम् ? इत्याह- सड्ढेहि वा वि भणिया, एग ठवेत्ताण णिघिसे सेसे ।
गणदेउलमादीसु व, दुक्खं खु विवजिउं बहुगा ॥ ३५८३॥ वाशब्द उत्सर्गपदे तावन्न कल्पते एकः सागारिकः स्थापयितुम् , द्वितीयपदे तु कल्पतेऽपीत्यस्यार्थस्य सूचनार्थः । ये श्राद्धाः-साधुसामाचारीकोविदास्तैः साधवो भणिताः-आर्याः ! 15 एकं शय्यातरं स्थापयित्वा शेषान् निर्विशत, मा सर्वानपि परिहरत । एवमुक्ता एकं स्थापयित्वा
शेषान् निर्विशन्ति । अथवा गणस्य-बहुजनसमूहस्य सामान्ये देवकुल-सभादौ स्थिता अनुक्ता अप्येकं स्थापयित्वा शेषान् निर्विशन्ति । कुतः ? इत्याह-'दुःखं' दुष्करं तत्र बहून् वर्जयितुम् ॥ ३५८३ ॥
गिण्हंति वारएणं, अणुग्गहत्थीसु जह रुई तेसिं ।
पक्कण्णपरीमाणं, संतमसंतेयरे दव्वे ॥ ३५८४ ॥ ___ यद्वा ते सर्वेऽपि शय्यातरा अनुग्रहार्थिनः ततो यथा तेषां रुचिरुपजायते तथा वारकेण गृह्णन्ति । तत्र च पक्के-उपस्कृते अन्ने परिमाणं ज्ञातव्यम्-किं परिमितानामुपस्क्रियते ? उतापरिमितानाम् ? इति । तदपि द्रव्यं तस्य गृहे तत्र देशे वा 'सद्' विद्यमानम् ? उत 'असद्
अविद्यमानम् ? । यदि पूर्वपरिणामेन सद् द्रव्यमुपस्कुर्वन्ति तदा कल्पते, अन्यथा भजनीयम् । 25 एवं तस्य शय्यातरस्य द्रव्ये सम्यगुपयोगो दातव्यः ॥ ३५८४ ॥
सूत्रम्
नो कप्पइ निग्गंथाण वा निग्गंथीण वा सागारियपिंडं बहिया अनीहडं असंसट्टे वा संसह वा पडिग्गा
हित्तए १४ ॥ 30 अथास्य सम्बन्धमाह
१ दुःखतरं का.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org