________________
भाष्यगाथाः ३५७३-८१ ]
द्वितीय उद्देशः ।
विधेया । अथ महत्तरादीनामेकोऽपि गृहे न प्राप्यते ततो यस्तेषामभ्यर्हितः प्राघुणकस्तमनुज्ञापयन्ति । एवंविधेन विधिना यदुपाश्रयस्य ग्रहणं तदेवानुज्ञातम्, नाविधिग्रहणम् ॥ ३५७७ ॥ अमुमेवार्थं स्फुटतरमाह -
उल्लो लहू दिय णिसि, तेणेकहिँ पिंडिए अणुण्णवणा ।
असहीणे जेट्ठादि व, जइ व समाणा महतरं वा ।। ३५७८ ।। यदि 'उल्लोमं' महत्तरादिक्रमव्यत्यासेनानुज्ञापयन्ति तदा मासलघु । तेनैकत्र 'पिण्डितानां' मिलितानां पञ्चानामप्यनुज्ञापना कर्त्तव्या । अथ सर्वेऽपि मिलिता अखाधीना:-न प्राप्यन्ते इत्यर्थः ततो ज्येष्ठ- महत्तरादिगृहेषु गत्वा अनुज्ञापना विधेया । 'यति वा' यावतः त्रिप्रभृतीन् तत्र सतः - स्वाधीनान् पश्यन्ति तावतामनुज्ञापनां कुर्वन्ति । महत्तरं वा एकमप्यनुज्ञापयन्ति, तस्य प्रमाणभूततया सर्वेषामनतिक्रमणीयत्वात् ॥ ३५७८ ॥ गतं घटाद्वारम्, व्रजद्वारमाहबाहिं दोहणवाडग, दुद्ध-दही- सप्पि-तक णवणीते ।
10
१ अत्र “दिय णिसि" त्ति पदं वृत्तिकृता नास्ति विवृतम् । "जं इति विशेषचूर्णिकृता विवृतम् ॥
-
आसण्णम्मि ण कप्पति, पंच पर उप्परिं वोच्छं ॥ ३५७९ ॥ कस्यापि शय्यातरस्य सम्बन्धी ग्रामाद् बहिर्गवां दोहनवाटको भवेत्, तस्मिन् दुग्ध-दधिसस्तिक-नवनीताख्यानि पञ्च 'पदानि' द्रव्याणि भवन्ति । एतच्च द्रव्यपञ्चकम् 'आसन्ने' क्षेत्राभ्यन्तरे दीयमानं न कल्पते, शय्यातरपिण्डत्वात् । अथैतानि दुग्धादीनि क्षेत्रस्य ' उपरि ' बहि- 15 वर्त्तन्ते ततस्तद्विषयं ग्रहण विधिमहं वक्ष्यामि ॥ ३५७९ ॥ प्रतिज्ञातमेव निर्वाहयति -
1
Jain Education International
९९५
निजंतं मोत्तणं, वारग भति दिवसए भवे गहणं । [आव.नि. १३६०] छिणं भतीय कप्पति, असती य घरम्मि सो चेव ।। ३५८० ॥
गोकुलाद् दुग्धादिपञ्चकं शय्यातरगृहे यद् नीयते स शय्यातरपिण्डो भवति, अतस्तद् दुग्धादिकं नीयमानं मुक्तत्वा यदन्यत् तत्रैव गोकुले परिभुज्यते तन्न भवति शय्यातर पिण्डः, परं 20 तदपि भद्रक-प्रान्तदोषपरिहारार्थं न गृह्यते । यस्मिन् पुनर्दिवसे 'भृतकस्य' गोपालस्य वारकस्तस्मिन् दुग्धादिकं शय्यातरपिण्डो न भवति, परं शय्यातरस्यापश्यतो ग्रहणं भवेद् न पश्यतः । तथा भृतिर्नाम - गोपालकस्य दुग्धचतुर्थभागादि परिभाषिता दिवसदैवसिकी वृत्तिः तया 'छिन्नं' विभक्तं यद् दुग्धादिकं तद् गोपालसत्कमिति कृत्वा कल्पते ग्रहीतुं यदि शय्यातरो न पश्यति । तथा यदि साधूनां शय्यां समर्प्य शय्यातरः सपुत्र- दारो व्रजिकायां गच्छेत् ततो गृहेऽविद्यमा- 25 नोsपि स एव शय्यातरो भवति ।। ३५८० ॥ अथास्या एव विषमपदानि विवृणोतिबाहिरखे छिणे, वारगदिवसे भतीय छिण्णे य ।
सो उण सांगरिपिंडो, वज्जो पुण दिट्ठि भद्दादि ॥ ३५८१ ।। सक्रोशयोजनक्षेत्रस्य बहिर्यश्छिन्नो विभागः शय्यातरगृहे न नीयते, गोपालकबारकदिवसे वा यः सर्वोऽपि दोहो गोपसत्कः, प्रतिदिवसलभ्यो वा भृत्या छिन्नो यो दुग्ध चतुर्थभागादि - 30 रूपो विभागः स एष सर्वोऽपि सागारिकपिण्डो न भवति, परं 'भद्रक - प्रान्तकृता दोषा दृष्टे
For Private & Personal Use Only
5
दिया वा राओ वा णिच्छुभिहिति” २ सारिय पिंडो ताभा० ॥
www.jainelibrary.org