________________
९९४ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिक० सूत्रम् १३ पुनस्तद्दिवसनीतं शय्यातरपिण्डः, शेषदिवसनीतं न शय्यातरपिण्डः, परं भूयः प्रसङ्गदोषान्न गृह्यते । एवं देवकुल-तडाग-यज्ञादिकां सङ्खडी कुर्वता काष्ठादिनिमित्तं च शम्बलं गृहीत्वाऽटवीं व्रजता क्षेत्रान्तर्दीयमानं शय्यातरपिण्डः । क्षेत्रबहिस्तदिवसनीतं शय्यातरपिण्डः, न द्वितीयादिदिवसनीतम् , परं तदपि न ग्रहीतव्यम् , मा भूयः सङ्खडिकरणमटवीगमनं वा साधूनां दानार्थ 5 कार्षीदिति कृत्वा ॥ ३५७२ ॥ अथ 'गृहे असन् स एव शय्यातरः' इति पदं व्याचष्टे
मुत्तूण गेहं तु सपुत्त-दारो, वाणिजमादी जति कारणेहिं ।
सयं व अण्णं व वएज देसं, सेजातरो तत्थ स एव होति ॥३५७३॥ 'मुक्त्वा' परित्यज्य गेहं साधूनर्पयित्वेत्यर्थः सपुत्र-दारः शय्यातरो वाणिज्यादिभिः कारणैयदि वकमन्यं वा देशं व्रजति तत्रापि स एव शय्यातरो भवति, न पुनर्दूरदेशान्तरस्थितत्वात् 1 तस्य शय्यातरत्वमपगच्छतीति ॥ ३५७३ ॥ गतं वणिग्द्वारम् । घटाद्वारमाह
महतर अणुमहतरए, ललियासण कडुअ दंडपतिए य ।
एतेहिं परिग्गहिया, होति घडातो तदा काले ॥ ३५७४ ॥ महत्तरोऽनुमहत्तरको ललितासनिकः कटुको दण्डपतिकश्चेति, एतैः पञ्चभिः परिगृहीतास्तदा पूर्वकाले 'घटाः' गोष्ठ्यः भवन्ति' बभूवुरित्यर्थः ।। ३५७४ ।। 16 अथामूनेव महत्तरादीन् व्याख्यानयति
सव्वत्थ पुच्छणिज्जो, तु महतरो जेट्टमासण धुरे य ।
तहियं तु असण्णिहिए, अणुमहतरतो धुरे ठाति ॥ ३५७५ ॥ यः सर्वत्र' सर्वेषु गोष्ठिकार्येषूत्पद्यमानेषु सर्वैरपि गोष्ठिपुरुषैः प्रच्छनीयः, यस्य च ज्येष्ठं बृहत्तरमासनम् , 'धुरि च' सर्वेषामादौ स्थाप्यते स महत्तरः । ततः तस्मिन्' मूलमहत्तरेऽस2८ निहिते यस्तत्र सर्वैरपि प्रच्छनीयः 'धुरि च' प्रथमं तिष्ठति सोऽनुमहत्तरः ॥ ३५७५ ॥
भोयणमासणमिटुं, ललिए परिवेसिया दुगुणभागो।
कडुओ उ दंडकारी, दंडपती उग्गमे तं तु ॥ ३५७६ ॥ यस्य भोजनमासनं च 'इष्टम्' मनोभिरुचितं क्रियते, परिवेषिका च स्त्री तस्याभीष्टा क्रियते, इष्टभोजनस्य द्विगुणो भागो दीयते स ललितमशनमासनं वाऽस्येति व्युत्पत्त्या ललिताशनिको 25 ललितासनिको वा । अपराधापन्नस्य गोष्ठिकस्य यो दण्डपरिच्छेदकारी स कटुको भण्यते । यः पुनस्तं दण्डमुद्गमयति स दण्डपतिः ॥ ३५७६ ॥ एतेषां महत्तरादीनां यद् देवकुल-सभादिकं तस्य कथमनुज्ञापना विधेया ? इत्याह
उल्लोमाऽणुण्णवणा, अप्पभुदोसा य एक्कओ पढ ।
जेहादिअणुण्णवणा, पाहुणए जं विहिग्गहणं ॥ ३५७७ ॥ 50 महत्तरादिक्रममुल्लङ्घय यदि उल्लोम-प्रतीपक्रमेणानुज्ञापनां करोति तदा मासलघु, 'अप्रभुदोषाश्च' निष्काशनादयो भवेयुः, अतः सर्वेऽप्येकतो मिलिताः प्रथममनुज्ञापनीयाः । अथ सर्वे मिलिता नावाप्यन्ते ततो ज्येष्ठमहत्तरस्य, तदभावे यथाक्रममनुमहत्तरादीनामनुज्ञापना १°धूनामर्प भा० मो० ले० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org