________________
भाष्यगाथाः ३५६४-७२] द्वितीय उद्देशः । तदिवसनीतमन्यदिवसनीतं च भक्त-पानं न कल्पते।' सर्वमित्युक्ते मा भूदतिप्रसङ्ग इत्याशच्याह-यच्च 'प्रायोग्यं' यतिजनयोग्यम् , एषणीयं प्रासुकं चेत्यर्थः, “खंधे" ति स्कन्धप्रदेशे मोट्टां कृत्वा बहिग्रीमेपु व्यवहरन् शय्यातरः साधूनां दधि-दुग्धादिकं दद्यात् , “संखडि' त्ति सङ्खडी कुर्वन् साधूनामपि दद्यात् , “अडवि' त्ति अटवीं वा काष्ठच्छेदनादिनिमित्तं गृहीतशम्बलो गच्छन् साधून् दृष्ट्वा तन्मध्यात् तेषामपि दद्यात् , एतेषु त्रिष्वपि न कल्पते । “असई 5 य घरम्मि सो चेव" ति यदि शय्यातरः सपुत्र-पशु-बान्धवो गृहे नास्ति किन्तु देशान्तरं प्रोषितः तदा देशान्तरस्थितोऽपि स एव शय्यातरो नान्य इति नियुक्तिगाथासमासार्थः ।। ३५६८ ॥ अथैनामेव विवरीषुराह
निग्गमगाइ बहि ठिए, अंतो खेत्तस्स वजए सव्वं ।
बाहिं तद्दिणणीए, सेसेसु पसंगदोसेण ॥ ३५६९ ॥ शय्यातरो वाणिज्येन देशान्तरं गन्तुकामो निर्गमकः-प्रस्थानं स शुभमुहूर्ते क्रियते इत्यादिकारणेन नगरादेर्बहिर्गत्वा सक्रोशयोजनक्षेत्रस्याभ्यन्तरे बहिर्वा स्थितो भवेत् । यदि 'अन्तः' क्षेत्राभ्यन्तरे स्थितः तदा 'सर्व' तदिवसा-ऽन्यदिवसनीतं शय्यातरपिण्ड इति कृत्वा वर्जयेत् । अथासौ क्षेत्राद् बहिः स्थितस्ततस्तदिवसनीतं शय्यातरपिण्डः, शेषदिवसनीतं तु यत् परिवासितं यद् वा तत्रैवोपस्कृतं तन्न शय्यातरपिण्डः, परं तदपि 'प्रसङ्गदोषेण' 'मा भद्रक-प्रान्तकृत-18 दोषाणां प्रसङ्गो भवेत्' इति कृत्वा न ग्रहीतव्यम् ॥ ३५६९ ॥
ठितो जया खेत्तबहिं सगारो, भत्तादियं तस्स दिणे दिणे य ।
अच्छिण्णमाणिजति णिज्जती य, गिहा तदा होति तहिं वि वजे ॥ ३५७० ॥ यदा सागारिकः क्षेत्राद् बहिः स्थितस्तदा तस्य भक्तादिकमव्यवच्छिन्नं दिने दिने गृहाद् बहिरानीयते बहिःस्थानाच गृहं नीयते तत् सर्वमपि तत्र स्थितस्य तस्य वर्जयेत् ॥ ३५७० ॥ 20
बाहिं ठिय पठियस्स उ, सयं व संपत्थिया उ गेण्हंति ।
तत्थ उ भद्दगदोसा, ण होंति ण य पंतदोसा उ ॥ ३५७१ ॥ शय्यातरः क्षेत्राद् बहिः स्थितो यस्यां वेलायामग्रतो गन्तुं प्रस्थितः, खयं वा साधवः पूर्णे मासकल्पे सम्प्रस्थिताः तदा तदिवसा-ऽन्यदिवसानीतं सर्वमपि प्रायोग्यं भक्त-पानं गृहन्ति । कुतः ? इत्याह-'तत्र' तस्यां वेलायां गृह्यमाणे भद्रकदोषाः प्रान्तदोषाश्च न भवन्ति, पुनर्ग्रहणा- 25 भावादिति भावः ॥ ३५७१ ॥ अथ स्कन्धपदं सङ्खडिपदमडवीपदं च व्याख्याति
अंतों बहि कच्छउडियादि क्वहरंते पसंगदोसा उ।।
देउल-जण्णगमादी, कट्ठादण्डविं व वच्चंते ॥ ३५७२ ॥ क्षेत्रस्यान्तर्बहिर्वा शय्यातरः 'कक्षापुटिकादिः' कक्षाप्रदेशे पुटा यस्य स कक्षापुटिकःगृहीतोभयमोट्टाक इत्यर्थः, आदिशब्दात् कौतुपिकादिर्वा बहिामेषु व्यवहरन् साधूनां दधि-30 दुग्धादिकं दापयति । तत्र क्षेत्रस्यान्तस्तदिननीतमन्यदिननीतं च शय्यातरपिण्डः । बहिः
१ अत्रान्तरे ग्रन्थानम् ८५८० इति मो० ले. ॥ २ इति सङ्ग्रहगाथा भा० । “दोसु वि अव्वोच्छिण्णे० गाहा पुरातना" इति विशेषचूर्णौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org