________________
९९१
भाष्यगाथाः ३५५५-६३] द्वितीय उद्देशः ।
पाहुणयं च पउत्थे, भणंति मेत्तं व णातगं वा से ।
तं पि य आगतमेत्तं, भणंति अमुएण णे दिण्णं ॥ ३५६०॥ प्रभौ प्रोषिते सति प्राघुणको यस्तस्याभ्यर्हितः समायातः तं वा मित्रं वा तदीयं 'ज्ञातकं वा' स्वजनं 'भणन्ति' अनुज्ञापयन्ति । 'तं च' प्रभुमागतमात्रमेव भणन्ति—'अमुकेन' युष्मन्मित्रादिना अस्माकमिदं गृहं प्रदत्तम् । स चाभीष्टनामग्रहणे कृते न निर्धाटयति ॥ ३५६० ॥5 अप्रभुविषयं विधिमाह
अप्पभुणा उ विदिण्णे, भणंति अच्छामु जा पभू एती।
पत्ते उ तस्स कहणं, सो उ पमाणं ण ते इतरे ॥ ३५६१ ॥ अप्रभुरनुज्ञापितो भणति-अहं न जानामि । ततः साधवो भणन्ति-यावत् प्रभुरागच्छति तावद् वयं तिष्ठामः । एवमनुज्ञापितेनाप्रभुणा वितीर्णे प्रतिश्रये यदा प्रभुः प्राप्तो भवति 10 तदा तस्याग्रे यथाभूतं कथयितव्यम् । कथिते च सं ददाति वा निष्काशयति वा स एव तत्र प्रमाणम् , न 'ते' पूर्वानुज्ञापिताः 'इतरे' अप्रभवः । एवमुक्तेन विधिना यद् वसतेर्ग्रहणं तदेवानुज्ञातमिति ॥ ३५६१ ॥
इय एसाऽणुण्णवणाजतणा पिंडो पभुस्स ऊ वजो।
सेसाणं तु अपिंडो, सो वि य वजो दुविहदोसा ॥ ३५६२॥ 15 'इति' एवमुक्तप्रकारेण एषा प्रतिश्रयानुज्ञापनायां यतना प्रोक्ता । अथ शय्यातरपिण्डपरिहरणे यतनाऽभिधीयते-यः प्रभुः स शय्यातर इति कृत्वा तद्गृहे पिण्डो वर्व्यः । 'शेषाणाम्' अप्रभूणाम् 'अपिण्डः' शय्यातरपिण्डो न भवति, परं सोऽपि 'द्विविधदोषात्' भद्रक-प्रान्तकृ. तदोषपरिहारार्थ वर्जनीयः ॥ ३५६२ ॥ गतं पितापुत्रद्वारम् । अथ सपत्नीद्वारम्एगे महाणसम्मी, एक्कतों उक्खित्ते सेसपडिणीए।
20 जेट्टाएँ अणुण्णवणा, पउत्थें सुय जेट्ठ जाव पभू ॥ ३५६३ ॥ शय्यातरे प्रोषिते सति यास्तदीयाः पत्न्यस्तासां यद् भोजनं तत्र चतुर्भङ्गी-एकत्र राद्धमेकत्र भुक्तं १ एकत्र राद्धं विष्वग् भुक्तं २ विष्वग् राद्धमेकत्र भुक्तं ३ विप्वग् राद्धं विष्वग् भुक्तम् ४ । तत्र “एगे महाणसम्मी एगतो" ति एकस्मिन् महानसे राद्धमेकतो भुक्तमिति प्रथमभङ्गो गृहीतः । “उक्खित्तं" ति एकत इति पदमनुवर्तते, एकतः-एकस्मिन् स्थाने 'उत्क्षिप्त' 25 भोजनभूमिकां नीतं भुक्तमिति यावत् अर्थादापन्नं विष्वग् राद्धम् , एतेन तृतीयभङ्ग उपात्तः । द्वितीय-चतुर्थभङ्गो पुनरवर्जनीयाविति कृत्वा न गृहीतौ । (ग्रन्थाग्रम्-२४४२०) “सेसपडिणीए" ति यद एकत्र राद्धमेकत्र भुक्तं तत्र भुक्त शेषं यद्यपि शेषसपत्नीभिः स्वगृहं प्रत्यानीतं तथापि भद्रक-प्रान्तदोषपरिहारार्थ वर्जनीयम् । तथा प्रभो प्रोषिते तदीया ज्येष्ठभार्या वसतिमनुज्ञाप्यते । अथ सा न सुतमाता ततोऽनुज्येष्ठाऽपि या पुत्रवती । द्वयोर्वा पुत्रवत्योर्या ज्येष्ठ- 30 पुत्रा, यत्पुत्रो वा प्रभुः, या वा खयं गृहे 'प्रभुः' प्रमाणभूता सा अनुज्ञापनीया । एषा चिरन्तनगाथा ।। ३५६३ ॥ अथैनामेव विवृणोति
१ ग्रन्थानम्-९०००त. डे०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org