________________
९९० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [सागारिक० सूत्रम् १३ अथ 'कया यतनया ग्रहीतव्यः ?' इति द्वारमाह
तिक्खुत्तो सक्खेत्ते, चउद्दिसिं मग्गिऊण कडयोगी।
दव्वस्स य दुल्लभया, सागारियसेवणा दव्वे ॥ ३५५५॥ 'खक्षेत्रे' सक्रोशयोजनाभ्यन्तरे खग्राम-परग्रामयोः 'विकृत्वः' त्रीन् वारान् चतसृष्वपि दिक्षु 5 शुद्धं भैक्षं दुर्लभद्रव्यं वा मार्गयित्वा यदि न प्राप्नोति ततः कृतयोगी' गीतार्थः 'द्रव्यस्य' शुद्धभक्त पानादेर्दुर्लभतां मत्वा सागारिकद्रव्यस्य-शय्यातर- पिण्डस्य पतिसेवनां करोति ॥ ३५५५ । उक्त एकशय्यातर » विषयो विधिः । अथानेकशय्यातरविषयं विधिमाह
णेगेसु पिया-पुत्ता, सवत्ति वणिए घडा वए चेव ।।
एएसिं णाणत्तं, वोच्छामि अहाणुपुवीए ॥ ३५५६ ॥ 10 अनेकेषु शय्यातरेष्वमी भेदाः-पिता-पुत्रौ सपत्न्यो वा वणिजो वा घटावा-गोष्ठी व्रजो वागोकुलम् । एतेषां द्वाराणां 'नानात्वं' विभागं वक्ष्यामि' प्ररूपयिष्यामि यथानुपूर्व्या ॥ ३५५६॥ प्रतिज्ञातमेव निर्वाहयति--
पित-पुत्त थेरए या, अप्पभु दोसा य तम्मि उ पउत्थे।
जेहातिअणुण्णवणा, पाहुणए जं विधिग्गहणं ॥ ३५५७ ॥ 15 यदि पिता पुत्रश्च द्वावपि प्रभू तत उभावपि अनुज्ञापयितव्यौ । अथ पिता स्थविर इति कृत्वा
चशब्दात् पुत्रोऽप्यतिबाल इति कृत्वा यद्यप्रभुस्तदा नानुज्ञापनीयः । दोषाश्चानुज्ञापनायां निष्काशनादयः प्रभुकृता भवन्ति । अथ स प्रभुः प्रोषितस्ततस्तस्यैव यो ज्येष्ठः पुत्र आदिशब्दादनुज्येष्ठादयो वा तेषामनुज्ञापना कर्तव्या, प्राघुणको वा यस्तस्याभ्यर्हितः सोऽनुज्ञापनीयः । सर्वत्र यद् विधिना ग्रहणं तदेवानुज्ञातं भगवद्भिर्नाविधिनेति ॥३५५७ ॥ अथैनामेव व्याख्यानयति
दुप्पभिइ पिया-पुत्ता, जहिँ होंति पभू ततो भणइ सव्वे ।
णातिकमंति जं वा, अपभुंव पहुं व तं पुव्वं ॥ ३५५८ ॥ द्विप्रभृतयोऽनियताः पितापुत्रा यत्र प्रभवो भवन्ति तत्र सर्वानपि तान् मिलितान् 'भणति' अनुज्ञापयति । यं वा प्रभुमप्रभुं वा 'नातिकामन्ति' नाप्रमाणयन्ति तं पूर्वमनुज्ञापयति ।। ३५५८॥
अप्पभु लहुओ दिय णिसि, पभुणिच्छूढे विणास गरहा य ।। 95
असहीणम्मि पभुम्मि उ, सहीणजेहादऽणुण्णवणा ।। ३५५९ ॥ ___यद्यप्रभुमनुज्ञापयन्ति ततो मासलघु । प्रभुश्च समागतो दिवा निष्काशयति चतुर्लघु । निशायां निष्काशयति चतुर्गुरु । रात्रौ निष्काशिताः स्तेन-श्वापदादिभिर्विनाशं प्रामुवन्ति । . अन्यत्र वसतिमलभमाना लोकतो गर्हामासादयन्ति, यथा- किं यूयं शोभनैः कर्मभिर्निर्घाटिताः ? वयमपि न प्रयच्छाम इति । अथ 'प्रभुः' पिता न स्वाधीनः किन्तु प्रोषितः ततो यः स्वाधीनः 30 ज्येष्ठादिः पुत्र आदिशब्दादनुज्येष्ठादिकोऽपि यः प्रभुः सोऽनुज्ञापयितव्यः । अथ सर्वेऽपि प्रभवः ततो युगपत् ते सर्वेऽप्यनुज्ञापनीयाः ॥ ३५५९ ॥ १ एतचिह्नान्तर्गतः पाठः का० एव वर्तते ॥ २ "पियपुत्त० गाहा पुरातना" इति विशेषचूर्णौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org