________________
भाष्यगाथाः ३५४८-५१] द्वितीय उद्देशः ।
९८९ कार्ये ग्रहीष्यामः । एवं घृतादि दुर्लभद्रव्यमपि सुलभं भवति, न च शय्याया व्यवच्छेदो जायते ॥ ३५४९ ॥ गतं 'दोषा वा के तस्य ?' इति द्वारम् । अथ 'कारणजाते कस्मिन् कल्पते ?' इति द्वारमाह
दुविहे गेलनम्मी, निमंतणे दव्यदल्लमे असिवे ।
ओमोदरिय पोसे, भए व गहणं अणुण्णायं ॥ ३५५० ॥ _ 'द्विविधे' आगाढे अनागाढे च ग्लानत्वे १ तथा निमन्त्रणे २ दुर्लभद्रव्ये ३ अशिवे ४ अवमौदर्ये ५ प्रद्वेषे वा' राजद्विष्टे ६ 'भये वा' बोधिकस्तेनादिसमुत्थे ७, एवं सप्तसु कारणेषु शय्यातरपिण्डस्य ग्रहणमनुज्ञातम् । एवं नियुक्तिगाथार्थः ॥ ३५५०॥ साम्प्रतमेनामेव विवृणोति
तिपरिरयमणागाढे, आगाढे खिप्पमेव गहणं तु ।
कजम्मि छंदिया घेच्छिमो त्ति ण य बेंति उ अकप्पं ॥ ३५५१ ॥ 10 'त्रिपरिरयं' त्रीन् वारान् परिभ्रमणं तदनागाढे ग्लानत्वे कर्तव्यम् । यदि तथापि ग्लानप्रायोग्यं न लभ्यते ततः पञ्चकपरिहाण्या मासलघुप्राप्ताः शय्यातरपिण्डं गृह्णन्ति । आगाढे तु ग्लानत्वे क्षिप्रमेव ग्रहणं कार्यम् । तथा शय्यातरेण 'भक्त-पानमस्मद्गृहे गृहीत' एवं 'छन्दिताः' निमन्त्रिताः सन्तो भणन्ति-कार्ये समुत्पन्ने ग्रहीष्याम इति । न च ब्रुवते-युष्मदीयं भक्तपानमस्माकं न कल्पते ॥ ३५५१ ॥
15 जं वा असहीणं तं, भणंति तं देह तेण णे कजं । ..
णिब्बंधे चेव सई, घेत्तूण पसंग वारेति ॥ ३५५२ ॥ यद् वा द्रव्यं तस्य गृहे 'अखाधीनं' नास्तीत्यर्थः तद् 'भणन्ति' याचन्ते इत्यर्थः । यथाअमुकं द्रव्यं प्रयच्छत तेनास्माकं गुरुतरं कार्यम् । अथ शय्यातरो निर्बन्धम्-अतीवाग्रह करोति ततः 'सकृद्' एकवारं गृहीत्वा भूयः प्रसङ्गं निवारयन्ति ॥ ३५५२ ॥ 20
दुल्लभदव्वं व सिया, संभारघयादि घेप्पती तं तु । [ओ.नि. ३२०]
ओमऽसिवे पणगादिसु, जतिऊणमसंथरे गहणं ॥ ३५५३ ॥ दुर्लभद्रव्यं वा सम्भारघृतादिकं शय्यातरगृहे स्यात् , सम्भारः-बहुद्रव्यसंयोगस्तत्प्रधानं घृतं सम्भारघृतम् , आदिशब्दात् शतपाकतैलादि, तच्च ग्लानादिनिमित्तं शय्यातरगृहे गृह्यते । अवमौदर्या-ऽशिवयोरसंस्तरणे पञ्चकहान्या यतित्वा मासलघुप्राप्ताः शय्यातरकुले ग्रहणं 25 कुर्वन्ति ॥ ३५५३ ॥
उवसमणट्ट पदुटे, सत्थो वा जा ण लभते ताव ।
अच्छंता पच्छण्णं, गेहंति भए वि एमेव ॥ ३५५४॥ प्रद्विष्टस्य राज्ञ उपशमनार्थे तिष्ठन्तः, यद्वा राज्ञा निर्विषया आज्ञप्ताः सन्तो यावत् तत्र सार्थो न लभ्यते तावत् प्रच्छन्नं तिष्ठन्तः शय्यातरकुले भक्त-पानं गृह्णन्ति, मा पर्यटतो राजा 30 वा राजपुरुषा वा द्राक्षन्निति कृत्वा । भयं-बोधिकस्तेनादिप्रभवं तत्र बहिामेषु भिक्षां गन्तुं न शक्यते खग्रामे च न लभ्यते अतः 'एवमेव' शय्यातरकुले गृह्णन्ति ॥ ३५५४ ॥
१ एषा नियुक्तिगाथा ताटी. भा० कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org