________________
९८८
___ सनियुक्ति-लधुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [सागारिक० सूत्रम् १३ तदीय उपाश्रयः सर्वोऽपि “अगणि" त्ति अग्निना प्रदीपितः । ततः समायातः संयतः, दृष्टः प्रतिश्रयो दग्धः, कृतवान् 'हा कप्टम् ! हा हा कष्टम् ! ! बहूपकरणं दग्धम् ! ! !' इति परि. खेदम् । पृष्टश्च श्रावकः--किञ्चिदुपकरणं निष्काशितं न वा ? इति । स प्राह-न शक्तं किमपि निष्काशयितुम् परं 'भाण' त्ति भाजनद्वसं महता कप्टेन निष्काशितम् । ततः साधुना 5 भणितम्-विहामि सम्प्रति यस्यां दिशि सुभिक्षम् । श्रावकः प्राह -“एज' त्ति सुभिक्षीभूते 'भूयोऽप्यागच्छेत् । ततः प्रतिपन्नं साधुना तद्वचनम् । समागतः कालान्तरेण पुनरपि तत्रैवासौ । निवेदितः श्रावकेण यथावस्थितो व्यतिकरः, क्षमयित्वा च दत्तं सर्वमपि तदीयमुपकरणम् । एवमादयो दोषा उपकरणालाघवे भवन्ति ॥ ३५४७ ॥ अथ दुर्लभशय्याद्वारमाह
भिक्खा पयरणगहणं, दोगचं अण्णआगमें ण देमो।
पयरण णत्थि ण कप्पति, असाहु तुच्छे य पण्णवणा ॥ ३५४८ ॥ ___कस्यापि श्रेष्ठिनो गृहे पञ्चशतिको गच्छो वर्षासु स्थितः । स च शय्यातरो गृहमानुषाण्यादिशति-यदि साधवो गृहात् तुच्छै जनैर्निर्गच्छन्ति ततो महदमङ्गलं स्यात् , अतो दिने दिनेऽमीषां प्रथममेव भिक्षा दातव्या । ततस्ते साधवः सर्वेऽपि तस्मिन् गृहे प्रतिदिनं प्रथमतः
प्रतरणभिक्षां गृह्णन्ति । ततश्च शय्यातरस्य कालान्तरेण 'दौर्गत्यं' दरिद्रता । अन्येषां च 15 साधूनां तत्रागमनम् । ते च तं श्रेष्ठिनं वसतिं याचन्ते । स प्राह-विद्यते वसतिः परं न
प्रयच्छामः । साधुभिरुक्तः-किं कारणं न प्रयच्छसि ? । स प्राह-'प्रैतरणं' प्रथमदातव्यभिक्षारूपं नास्ति । साधवो ब्रुवते-न कल्पतेऽस्माकं प्रतरणं ग्रहीतुम् । स प्रतिब्रूते-'असाधु' अमङ्गलमिदं यद् मम गृहात् तुच्छै जनैर्निर्गच्छन्ति । ततस्तस्य साधुभिः प्रज्ञापना कृता
आयुष्मन् ! इदमेव भवतः परमं मङ्गलं यदेवं साधूनां वसतिरुपयुज्यते, अनया हि दत्तया 20 भवता सर्वमपि भक्त-पानादिकं दत्तमेव भवति । इत्थं प्रज्ञापितः स तेषां वसतिं प्रदत्तवान् । एवं दुर्लभा शय्या भवति ॥ ३५४८ ॥ अथ व्यवच्छेदद्वारमाह
थल देउलिया ठाणं, सतिकालं दट्ठ दट्ट तहिँ गमणं ।
निग्गएँ वसहीभंजण, अण्णे उभामगाऽऽउट्टा ॥ ३५४९॥ कस्यापि ग्रामस्य मध्ये स्थलम् । तत्र च ग्रामेण मिलित्वा देवकुलिका कारिता । तत्र साधवः 25 स्थिताः । ते च तत्रोच्चतरे देवकुले स्थिताः 'सत्कालं' भिक्षाया देशकालं दृष्ट्वा दृष्ट्वा 'तत्र' तेषु कुलेषु भिक्षार्थ गच्छन्ति, न चैकमपि कुलं तेषां भिक्षां गृह्णतामुद्वरति । एवं च निर्विण्णाः सर्वेऽपि गृहस्थाः । ततो निर्गतेषु साधुषु 'वसतेः' देवकुलिकायास्तैर्भञ्जनम् ‘मा अन्योऽप्येवमागत्य स्थास्यति' इति । इतश्चान्यस्मिन्नीदृशे स्थलग्रामेऽन्ये केचन साधवो देवकुलिकायां स्थिताः ।
ते च भगवन्तो निःस्पृहाः बहिर्गामेषूद्रामकभिक्षाचर्यया गच्छन्ति खाध्यायपराश्च तिष्ठन्ति । 3८ ततस्ते गृहस्था आवृत्ताः सम्भूय तान् साधून निमन्त्रयन्ति । साधवो ब्रुवते-बाल-वृद्धादीनां
१ प्रचर भा० । विशेषचूर्णी 'पतरण' 'पचरण' इति द्वावपि शब्दो दृश्येते ॥ २°क्तम्-किं भा० ॥ ३'प्रचर भा०॥ ४ ताटी. भा० कां. विनाऽन्यत्र-अन्येऽप्येवमागतास्तापयिष्यन्तीति मो० ले० डे० । अन्येऽप्येवमागतास्तापयन्तीति त० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org