________________
भाष्यगाथाः ३५३२-३९) द्वितीय उद्देशः । प्राहयदा निर्गन्तुकामैः पात्राद्युपकरणमुद्राहितं तदा अशय्यातरः । अन्यो ब्रूते-यदा वसतेनिर्गता भवन्ति । तदपरो भणति-यदा सागारिकस्यावग्रहाद् निर्गताः । एको ब्रूते--सूर्योद्गमे निर्गतानां प्रथमपौरुष्यामतीतायामशय्यातरः। अन्योऽभिधत्ते-द्वितीयस्यां पौरुष्यां गतायाम्। अपरो ब्रूते-तृतीयस्याम् । तदन्यः प्राह-'यावद् दिवसं' दिवससत्काश्चतस्रः पौरुष्यः तावतः कालादूर्द्धमशय्यातरः । एते सर्वेऽप्यनादेशाः । सिद्धान्तः पुनरयम्- "वुत्थे वैजेजऽहोरत्तं" ति: यस्यां वसतावुषितास्ततो यस्यां वेलायां निर्गताः तत ऊर्द्धमहोरात्रं यावत् तद्गृहेऽशनादिकं वर्जयेयुः, ततः परं तु कल्पते । आपृष्टादिषु तु सागारिकावग्रहनिर्गतान्तेष्वादेशेषु यदि कथमपि गमनविघ्नमुत्पन्नं ततो भूयोऽपि तस्यामेव वसतौ स्थितेषु कथमशय्यातरो भवितुमर्हति ? । ये पुनः प्रथमादिप्रहरविभागेनाशय्यातरमिच्छन्ति तेषां सूर्यास्तमननिर्गतानां रात्रौ प्रथमादिपौरुषीविभागेनाशय्यातरः प्रामोति तच्च न युज्यते ॥ ३५३६ ॥ कुतः ? इति चेद् उच्यते- 10
अग्गहणं जेण णिसिं, अणंतरेगंतरं दुहिं च ततो।
गहणं तु पोरिसीहि, चोदग! एते अणादेसा ॥ ३५३७ ॥ 'येन' हेतुना 'निशि' रजन्यामस्माकं भक्त-पानादेरग्रहणं ततो यत्किञ्चिदनन्तरमेकान्तरव्यन्तराभिर्वा पौरुषीभिः शय्यातरपिण्डस्य ग्रहणमिच्छन्ति, हे नोदक ! त एते सर्वेऽप्यनादेशाः। आदेशः पुनरयम् -सन्ध्यायां दिवा निर्गतानां रजन्याश्चतुरो यामान् शय्यातरः, ततः परं 15 सूर्योद्मेऽशय्यातरः ॥ ३५३७ ॥ एवं जघन्यत उक्तम् । उत्कर्षतः पुनरित्थम् -
सूरत्थमणम्मि उ णिग्गयाण दोण्ह रयणीण अट्ठ भवे ।
देवसिय मज्झ चउ दिणणिग्गति वितियम्मि सा वेला ॥ ३५३८ ॥ 'सूर्यास्तमनसमये' रात्रौ निर्गतीनां तामेव रात्रिमपरं चाहोरात्रं शय्यातरो भवति । ततो द्वयो रजन्योरष्टौ यामाः दैवसिकाश्च रजनीद्वयमध्यवर्तिनश्चत्वारो यामाः एवं द्वादशानां यामा- 20 नामन्ते उत्कर्षतोऽशय्यातरो भवति, • ऍष एक आदेशः । द्वितीयः पुनरयम्- “दिणनिग्गएँ बिइयम्मि सा वेल" ति सूर्योदये दिवा यदि निर्गतास्तदा द्वितीये दिने तस्यामेव वेलायामशय्यातरः, एवमहोरात्रं वर्जितं भवति ॥ ३५३८ । गत॑म् 'अशय्यातरो वा कदा ?' इति द्वारम् । अथ 'शय्यातरः कस्य परिहर्त्तव्यः ?' इति द्वारनिरूपणायाह
लिंगत्थस्स उ वज्जो, तं परिहरतो व भुंजतो वा वि।
जुत्तस्स अजुत्तस्स व, रसावणो तत्थ दिटुंतो ॥ ३५३९ ॥ 'लिङ्गस्थस्य' साधुलिङ्गधारिणः 'तं' शय्यातरपिण्डं परिहरतो वा भुञ्जानस्य वा साधुगुणैर्युक्तस्य वा अयुक्तस्य वा शय्यातरः 'वर्व्यः' वर्जनीयः। अत्र 'रसापणः' मधहट्टो दृष्टान्तः । यथा-महाराष्ट्रदेशे रसापणे मद्यं भवतु वा मा वा तथापि तत्परिज्ञानार्थं तत्र ध्वजो बध्यते, तं ध्वजं दृष्ट्वा सर्वे भिक्षाचरादयः परिहरन्ति । एवमस्माकमपि साधुगुणैर्युक्तोऽयुक्तो वा भवतु 30
१ वजे अहो' ताटी. भा० का० ॥ २ भा० कां. विनाऽन्यत्र-तानामेकरात्रि मो० ले । तानामेव रात्रि ताटी० त० डे० ॥ ३॥ एतदन्तर्गतः पाठः भा० नास्ति ॥ ४°तम् 'शय्या भा० का विना । "असेज्जायरे.त्ति गर्य"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org