SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९८४ मनियुक्ति लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे. { सागारिक० सूत्रम् १३ गतं 'कदा सागारिकः ?' इति द्वारम् । अथ 'कतिविधः शय्यातरपिण्डः?' इति द्वारमाह दुविह चउव्विह छविह, अट्टविहो होति बारसविहो य । सेञ्जातरस्स पिंडो, तबिवरीओ अपिंडो उ ॥ ३५३२ ॥ द्विविधो वा चतुर्विधो वा पड्विधो वा अप्टविधो वा द्वादशविधो वा शय्यातरस्य पिण्डो 5 भवति । तद्विपरीतः पुनः 'अपिण्डः' शय्यातरपिण्डो न भवति ॥ ३५३२ ॥ अथैनामेव गाथां विवृणोति आहारोवहि दुविहो, विदु अण्णे पाण ओहुवग्गहिए । असणादिचउर ओहे, उवग्गहे छविहो एस ॥ ३५३३ ॥ अण्णे पाणे वत्थे, पादे सूयादिया य चउरट्ट । असणादी वत्थादी, सूचादि चउकका तिन्नि ॥ ३५३४ ॥ द्विविधः शय्यातरपिण्डो भवति, तद्यथा-आहार उपधिश्च । “बिदु" त्ति द्विगुणितौ द्वौ चत्वारो भवन्तीति कृत्वा चतुर्विधः शय्यातरपिण्डः पुनरयम्-अन्नं पानं औधिकोपकरणं औपग्रहिकोपकरणं चेति । तथा अशनादयश्चत्वार औधिकोपधिः औपग्रहिकोपधिश्चेति षड्विधः ॥ ३५३३ ॥ 15 अन्नं पानं वस्त्रं पात्रं 'शूच्यादयः' शूची-पिष्पलक-नखरदनिका-कर्णशोधनरूपाश्चत्वार इत्यष्टविधः । तथाऽशनादीनि वस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि द्वादश भवन्ति । तद्यथा-अशनं १ पानं २ खादिमं ३ खादिमं ४ वस्त्रं ५ पात्रं ६ कम्बलं ७ पादप्रोञ्छनं ८ सूची ९ पिष्पलको १० नखच्छेदनकं ११ कर्णशोधनकं १२ चेति ॥ ३५३४ ॥ तण-डगल-छार-मल्लग-सेजा-संथार-पीढ-लेवादी। सेजातरपिंडो सो, ण होति सेहो य सोवहिओ ॥ ३५३५ ॥ - तृण-डगल-क्षार-मल्लक-शय्या-संस्तारक-पीठ-लेपा आदिशब्दात् कुटमुखादिकं च एष शय्यातरपिण्डो न भवति । यदि च शय्यातरस्य पुत्रादिः शैक्षो वस्त्र-पात्रसहितः प्रव्रजितुमुपतिष्ठते तदा स सागारिकपिण्डो न भवति, अतः कल्पते सोपधिरप्यसौ प्रव्राजयितुम् ॥ ३५३५॥ गतं 'कतिविधः सागारिकपिण्डः ?' इति द्वारम् । अथ [अ]शय्यातरः कदा भवति ?' इति 25 द्वारं निरूपयितुमाह . आपुच्छिय उग्गाहिय, वसहीतो णिग्गतोग्गहे एगे। पढमादि जाव दिवसं, वुत्थे वैजेजहोरत्तं ॥ ३५३६ ॥ अत्र नैगमनयाश्रितानि बहूनि मतान्तराणि । तत्रैको ब्रूते-सूरिभिः शय्यातरो यदा "उच्छू वोलिंति वई" (गा० १५३९) इत्यादिवचोभिरापृष्टस्तदाऽसावशय्यातरो भवति । अपरः १°ण्डः, यथा-आ° भा०॥ २“कतिविधे त्ति गतम् । इदानीमसेज्जातरो व काधे त्ति-आपुच्छि० गाधा॥" "कविहे त्ति गयं । असेज्जायरो व्व काहे त्ति-आपुच्छिय० गाहा" इति विशेषचूर्णौ ॥ ३ यमुग्गा तामा०॥ ४ वजे अहो ताटी. भा. कां.॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy