SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ९८३ भाष्यगाथाः ३५२७-३१] द्वितीय उद्देशः । अन्यत्र स्थाने सुप्त्वा 'चरम' प्राभातिकमावश्यकमन्यत्र कुर्वन्ति तदा यस्यावग्रहे रात्रौ सुप्ता यदवग्रहे च प्राभातिकप्रतिक्रमणं कृतं तौ द्वावपि शय्यातरौ भवतः । इदं प्रायः सार्थादिषु सम्भवति, आदिशब्दात् चौरावस्कन्दभयादिपरिग्रहः । 'इतरथा तु' प्रामादिषु वसतां 'भजना' विकल्पना ।। ३५३० ॥ तामेवाह असइ वसहीय वीसे, वसमाणाणं तरा तु भयितव्वा ।। तत्थऽण्णत्थ व वासे, छत्तच्छायं तु वजेंति ॥ ३५३१ ॥ यत्र सङ्कीर्णायां वसतौ सर्वेऽपि साधवो न मान्ति तत्र 'विष्वग्' अन्यस्यां वसतौ वसतां साधूनां शय्यातरा भक्तव्याः । तत्र हि यदि साधवः पृथग्वसतावुषित्वा द्वितीयदिने सूत्रपौरुषीं कृत्वा समागच्छन्ति ततो द्वावपि शय्यातरौ । अथ मूलवसतिमागम्य सूत्रपौरुषीं कुर्वन्ति तत एक एव मूलवसतिदाता शय्यातरः । लाटाचार्याभिप्रायः पुनरयम्-शेषाः साधवः 'तन वा' 10 मूलवसतौ 'अन्यत्र वा' प्रतिवसतौ वसन्तु, न तेषां सम्बन्धिना सागारिकेणेहाधिकारः, किन्तु सकलगच्छस्य च्छत्रकल्पत्वात् छत्रः-आचार्यस्तस्य च्छायां वर्जयन्ति, मौलशय्यातरगृहमित्यर्थः इति विशेषेचूर्णि-निशीथचूर्योरभिप्रायः । मूलचूर्ण्यभिप्रायः पुनरयम्-विस्तीर्णाया वसतेरभावे विष्वग्वसतौ वसतां शय्यातरा भजनीयाः, यदि संस्तरति ततः सर्वेऽपि शय्यातराः परिहियन्ताम् , अथ न संस्तरति तत 15 एक शय्यातरकुलं निर्विशन्ति शेषाणि परिहरन्ति । तथाऽप्यसंस्तरणे द्विव्यादिक्रमेण तावद् वक्तव्यं यावद् यस्य वसतावाचार्याः स एको वर्जनीयः, शेषाः सर्वेऽपि निर्वेशनीयाः । तथा "तत्थऽन्नत्थ व वासे" इत्यादि । किलैकस्याचार्यस्य बहव आचार्याः श्रुतार्थमुपसम्पन्नाः, ते चैकस्यां वसतावमान्तः पृथक्पृथग्वसतिषु स्थिताः सन्तः 'तत्र' मूलाचार्यसमीपे 'अन्यत्र वा' आत्मीयासु वसतिषु वसन्तु सर्वेषामपि शय्यातराः परिहर्त्तव्याः । असंस्तरणे तु पूर्वोक्तकमेण 20 तावद् वक्तव्यं यावत् छत्रच्छायां वर्जयन्ति, मौलाचार्यशय्यातरगृहमित्यर्थः ।। ३५३१ ॥ १ छत्रस्य-आचार्यस्य च्छा भा० कां० ॥ २"असह० गाहा। जहसंकुया वसही अद्धगा अन्नत्थ सोवगा जंति, तत्थ जे गया कल्लेगाणियं पोरिसिं तत्थेव करेंति दो वि सेजायरा। अह भूलवसही पडियागंता करेंति पोरिसिं मूलवसहिदाया सेजायरो। एसा भयणा । अहवा लाडाचार्यानामादेशेन-जत्थ आयरिओ वसति सो सेज्जाय........ ........"छत्तो आयरिभो ॥ काहे त्ति गयं ।" इति विशेषचूर्णिः॥ ३"असति. माधा ॥ जति संकुडा वसधी, अद्धगा अण्णत्थ सोवगा जति ताधे सेज्जातरा भयितव्वा । कधं ? जति संघरति सव्वे वजेंतु, अध ण संथरति तो एगं णिविसंति, दो तिष्णि जाव जस्स वसधीए आयरिओ जेसु सुवति सो वजेतव्यो । एस भयणा । 'तत्थऽण्णत्थ व वासे' त्ति जत्थ एगस आयरियस्स बहवे आयरिया सुओवसंपण्णगा एगाए वसधीए अमायंता पिधप्पिधासु वसधीसु ठिता ते पुण आयरिया 'तत्थ 'त्ति मूलायरियसगासे वा वसंतु 'अण्णत्थ व' त्ति अप्पऽप्पणिज्जियासु वसधीसु वसन्तु सब्बे सेजातरा वजेतव्यासंथरणे जाव जत्थ आयरिओ वसति सो वजेतव्वो। छत्तो-आयरिओ। छद अपवारणे। भाचार्यवसलाः सेजातरमित्यर्थः । एतं पसंगेण भणियं ॥ काधे त्ति गतं ॥” इति चूर्णिः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy