________________
९८२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिक० सूत्रम् १३
अत्र चैको वा अनेके वा शय्यातरा वर्ज्याः । अपवादपदे पुनरनेकेषु शय्यातरेष्वेकं सागारिकं स्थापयित्वा वर्जयेत्, शेषेषु तु प्रविशेत् । एतदुपरिष्टाद् व्यक्तीकरिष्यते ॥ ३५२६ ॥ अथ 'कदा सागारिको भवति इति प्रश्नस्य प्रतिवचनमाह
1
अणुणविय उग्गहंगण, पायोम्गाणुण्ण अतिगते ठविते । सज्झाय मिक्ख भुत्ते, णिक्खित्ताऽऽवासए एक्को ।। ३५२७ ॥ पढमे बितिए ततिए, चउत्थ जामे वे होज वाघातो । निव्वाघाए भयणा, सो वा इतरो व उभयं वा ॥ ३५२८ ॥ अत्र नैगमऩयाश्रिता बहव आदेशाः । तत्रैक आचार्यदेशीयो ब्रूते —-क्षेत्रे प्रत्युपेक्षिते सति यदा प्रतिश्रयोऽनुज्ञापितस्तदा सांगारिको भवति १ । अपरो भणति - यदा सागारिकस्यावग्रहं 10 प्रविष्टाः २ । अन्यो ब्रूते - यदा तस्य गृहस्यांङ्गणं प्रविष्टाः ३ । अपरः प्राह-यदा तृणगादिकं प्रायोग्यमनुज्ञापितम् ४ । अन्यों भणति - यदा वसतिम् 'अतिगताः ' प्रविष्टाः ५ । अपरो ब्रूते - दण्डकाद्युपकरणे स्थापिते दानश्राद्धादिकुलानां वा स्थापने स्थापिते ६ । तदपरः प्राह---यदा स्वाध्यायः कर्त्तुमारब्धः ७ । अन्यो भणति - यदा गुरूणां पार्श्वे उपयोगं कृत्वा मिक्षां पर्यटितुं लमाः ८ । अपरो ब्रूते - यदा भोक्तुमारब्धाः ९ । अन्यो भणति - भाजनेषु 15 निक्षिप्तेषु १० । एको ब्रूते यदा दैवसिकमावश्यकं कृतम् ११ ॥ ३५२७ ॥
--
-
अपरो भणति - रात्रौ प्रथमे यामे गते सति शय्यातरो भवति १२ । तदपरः- - द्वितीययामे गते १३ । अन्यः – तृतीययामे गते १४ । अपरोऽभिधत्ते – चतुर्थे यामे गते सति १५ । आचार्यः प्राह — एते सर्वेऽप्यनादेशाः । कुतः ? इत्याह – अनुज्ञापितावग्रहादिषु निक्षिप्तान्तेषु दिवसत एव व्याघातो भवेत्, व्याघाताच्चान्यां वसतिमन्यद्वा क्षेत्रं गताः ततः 20 कस्यासौ शय्यातरो भवतु ? । आवश्यकादिषु च चतुर्थयामपर्यन्तेषु वसतिव्याघातेन बोधिकस्तेनादिभयेन वाऽन्यत्र सङ्क्रामतां कस्य शय्यातरो भवितुमर्हति ? । आदेशः पुनरयम् - 'निर्व्याघाते' व्याघाताभावे यद्यन्यां वसतिं न गताः तत्रैव रात्रानुषितास्ततो भजना कर्त्तव्या । सवा शय्यातरो भवेत् 'इतरो वा' अन्य उभयं वा ॥ ३५२८ ॥ इदमेव भावयति —
जइ जग्गंति सुविहिया, करेंति आवासगं च अण्णत्थ । सेजातरो ण होती, सुते व कए व सो होती ॥ ३५२९ ॥
'यदि' इत्यभ्युपगमे, रात्रश्चतुरोऽपि प्रहरान 'सुविहिताः' शोभनानुष्ठानाः साधवो यदि जाग्रति प्राभातिकं चावश्यकमन्यत्र गत्वा कुर्वन्ति तदा स मूलोपाश्रयखामी शय्यातरो न भवति, किन्तु 'सुप्ते वा' शयिते कृते सति कृते वा प्राभातिकावश्यके स शय्यातरो भवति । अथ शय्यातरगृहे रात्रौ सुत्वा प्राभातिकप्रतिक्रमणं तत्रैव कुर्वन्ति तदा परिस्फुटं स एव शय्या३० तर इति ॥ ३५२९ ॥
5
25
अन्नत्थ व सेऊणं, आवासम चरममण्णहिं तु करे ।
दोणि वि तरा भवंती, सत्थादिसु इधरधा भयणा ।। ३५३० ।।
१ व होति वा ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org