________________
भाष्यगाथा: ३५१८-२६] द्वितीय उद्देशः । नया स पिण्ड एकस्मिन् वा सागारिके 'अनेकेषु वा' द्विव्यादिषु सागारिकेषु ग्रहीतव्यः ? इति द्वारगाथाद्वयसमासार्थः ॥ ३५१९ ॥ ३५२० ॥ अथ व्यासार्थ प्रतिद्वारमभिधित्सुराह- .
सागारियस्स णामा, एगट्ठा णाणवंजणा पंच।।
सागारिय सेजायर, दाता य तरे धरे चेव ॥ ३५२१ ॥ सागारिकस्य नामानि शक्रेन्द्र-पुरन्दरादिवदेकार्थानि 'नानाव्यञ्जनानि' पृथगक्षराणि पञ्च । भवन्ति । तद्यथा-सागारिकः १ शय्याकरः २ शय्यादाता ३ शय्यातरः ४ शय्याधरः ५ चेति ॥ ३५२१ ॥ अथैतेषामेव व्याख्यानमाह
अगमकरणादगारं, तस्सहजोगेण होइ सागारी। सेजाकरणे सेजाकरो उ दाता तु तद्दाणा ॥ ३५२२ ॥ गोवाइऊण वसहि, तत्थ वि ते यावि रक्खिउं तरह। तदाणेण भवोघं, च तरति सेजातरो तम्हा ॥ ३५२३ ॥ जम्हा धारइ सिजं, पडमाणिं छज-लेपमाईहिं ।
जं वा तीऍ धरेती, नरगा आयं धरो तम्हा ॥ ३५२४ ॥ न गच्छन्तीत्यगमाः-वृक्षास्तैः कृतमगारम् , पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तेन–अगारेण सह यस्य योगो विद्यते स सागारिकः, सर्वधनादेराकृतिगणत्वाद् मत्वर्थीय इक्प्रत्ययः । 15 यतश्चासौ शय्यां-प्रतिश्रयं करोति अतः शय्याकरः । तस्याः-शय्याया दानाच्च शय्यादाता भण्यते । यतश्चासौ वसतिं 'गोपायितुं' संरक्षितुं 'तरति' शक्नोति ततः शय्यातरः; यद्वा.'तत्र' तस्यां-शय्यायां स्थितान् साधून स्तेनादिप्रत्यपायेभ्यो रक्षितुं तरति ततोऽसौ शय्यातरः; अथवा तस्याः-शय्याया दानेन 'भवौघं' संसारप्रवाहं तरति अतः शय्यातर उच्यते । यस्माच शय्यां पतन्तीं छादन-लेपनाभ्याम् आदिशब्दात् स्थूणादानादिभिश्च धारयति अतः शय्याधरः; यद्वा 20 तया-शय्यया साधूनां वितीर्णया नरकादात्मानं धारयतीति शय्याधरः ।। ३५२२॥ ३५२३ ॥ ३५२४॥गतं सागारिकद्वारम् । अथ 'कः पुनः सागारिको भवति' इति प्रश्नस्य निर्वचनमाह
सेजायरो पभू वा, पभुसंदिट्ठो व होइ कायव्वो।
एगमणेगे व पभू, पभुसंदिट्टे वि एमेव ॥ ३५२५ ॥ शय्यातरः प्रभुर्वा प्रभुसन्दिष्टो वा कर्तव्यो भवति । तत्र प्रभुः--उपाश्रयखामी । प्रभुसन्दि-26 ष्टस्तु तेनैव प्रभुणा यत् कृतप्रमाणतया निर्दिष्टः । यः प्रभुः स एको वा स्यादनेको वा, प्रभुसन्दिष्टोऽपि 'एवमेव' एकोऽनेको वा भवति ॥ ३५२५ ॥ अमुमेवार्थ विशेषत आह
सागारिय संदिटे, एगमणेगे चउक्कभयणा तु।
एगमणेगा वज्जा, णेगेसु उ वजए एकं ॥ ३५२६ ॥ सागारिके सन्दिष्टे च एकानेकपदनिष्पन्ना चतुष्कभजना कर्तव्या । सा चेयम्-एकः 30 प्रभुरेकं सन्दिशति एष प्रथमो भङ्गः १ एकः प्रभुरनेकान् सन्दिशति इति द्वितीयः २ अनेके प्रभव एकं सन्दिशन्ति इति तृतीयः ३ अनेके प्रभवोऽनेकान् सन्दिशन्ति इति चतुर्थः ४ । १ उ ठावते एगं ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org