________________
९७९
भाष्यगाथाः ३५१०-१७] द्वितीय उद्देशः ।
अद्धाणमन्भवासे, गेलण्णागाढ वहगादी ॥ ३५१५॥ __ एतेषामागमनगृहादीनामभावे ये पूर्वमस्थि-दारुकादयो दोषा उक्तास्तैर्वर्जिते वृक्षमूले तिष्ठन्ति । तथा अध्वानं प्रतिपन्ना अपरप्रतिश्रयाभावे आगाढे वा ग्लानत्वे वजिकादौ सम्प्राप्ता अभावकाशे वसन्ति ॥ ३५१५ ॥ अथ वृक्षमूले तिष्ठतां विशेषमुपदर्शयति
कडं कुणंतेऽसति मंडवस्सा, कडाऽसती पोत्तिमतेणगम्मि ।
सद्दोवओगो धणुतासणा य, सोट्टादि पार्डिति य पुव्वलग्गे ॥ ३५१६ ॥ यत्र वृक्षमूलेऽधस्ताद् मण्डपो भवति तत्र प्रथमतः स्थातव्यम् । तदभावे कटं कुर्वन्ति, कटचिलिमिलिकां ददतीति भावः । अथ कटो न प्राप्यते ततः पोतं-वस्त्रं तैश्चिलिमिलिकाः कुर्वन्ति यदि 'अस्तेनकं' स्तेनभयं न स्यात् । अथ स्तेनभयं तत्र वर्तते सागारिका वा ब्रुवते 'श्रमणकाः पटमण्डपं कुर्वन्ति' ततः शब्दः कर्तव्यः, पक्षिणां 'छिछिका'इत्यादिना शब्देन 10 निवारणं कार्यमिति भावः । उपयोगो वा दातव्यः । धनुषा वा पाषाणैर्वा पक्षिणां त्रासनां कुर्वन्ति, भयमुपजनयन्तीत्यर्थः । सोट्टा नाम-शुष्ककाष्ठानि तानि आदिशब्दाद् लेष्टुकादीनि च » पूर्वलमानि पातयन्ति । एषा वृक्षमूले तिष्ठतां यतना भणिता। अथाम्रावकाशे तिष्ठता प्रतिपाद्यते-आगाढे ग्लानत्वे दुग्धादिना प्रयोजनं भवेत् तत्रामावकाशे वसनं सम्भवेत् ॥३५१६॥ कथम् ? इत्याह
16 विसोहिकोडिं हवइत्तु गामे, चिरं व कजं ति वयंति घोसं ।
अब्भासगामाऽसति तत्थ गंतुं, पडालि-रुक्खाऽसतिए अछण्णे ॥ ३५१७॥ यदा खग्रामे शुद्धं दुग्धादि न प्राप्यते तदा खग्राम एव ये विशोधिकोटिदोषास्तान् पञ्चकादिप्रायश्चित्तक्रमेण हापयित्वा दुग्धादिकं गृह्णन्ति । अथ तथापि न लभ्यते 'चिरं वा' प्रभूतदिवसान् तेन ग्लानस्य कार्यमिति कृत्वा 'घोष' गोकुलं व्रजन्ति । कथम् ? इत्याह -'अभ्यासे' 20 गोकुलपत्यासन्ने ग्रामे स्थित्वा गोकुलाद् दुग्धादिकमानेतव्यम् । अथ नास्ति प्रत्यासन्नग्रामस्ततः 'तत्र' वजिकायां गत्वा पटालिकायां तिष्ठन्ति । तस्या अभावे वृक्षमूले । तस्याप्यभावेऽच्छन्नेऽभावकाशेऽपि तिष्ठन्ति ॥ ३५१७ ॥
॥ उपाश्रयप्रकृतं समाप्तम् ॥
१ सोढादि भा० । “सोडा सुककट्ठा" इति विशेषचूर्णौ ॥ २ स्त्रं तन्मयी चिलिमिलिका दातव्या यदि भा०॥ ३°योगं वा प्रयच्छन्ति । धनु भा० ॥ ४ सोढा नाम भा० ॥ ५। एतचिहान्तर्गतः पाठः भा. नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org