________________
10
९७८ सनियुक्ति लघुभाष्य वृत्तिके बृहत्कल्पसूत्रे [उपाश्रयप्रकृत सूत्रस् १२ अस्य व्याख्या प्राग्वत् ॥ अथ भाष्यम्
एसेव गमो नियमा, निग्गंथाणं पि णवरि चउलहुगा ।
णवरिं पुण णाणत्तं, अब्भावासम्मि वतिगादी ॥ ३५१०॥ 'एष एव' निम्रन्थीसूत्रोक्तो गमः आगमनगृहादिविषयो नियमाद् निर्ग्रन्थानामपि भवति, 5 नवरं प्रायश्चित्तं चतुर्लघुकाः, शेषं तु सर्वमपि दोषजालं तथैव वक्तव्यम् । नवरं पुनरत्र द्वितीयपदे तिष्ठतां नानात्वम् । किम् ? इत्याह-वजिका-गोकुलं तस्यां ग्लानार्थं गताः सन्त आदिशब्दादध्वनि वा वर्तमाना अभावकाशे वसेयुः। उत्सर्गतस्तु निग्रन्थानामप्यागमनगृहादिषु स्थातुं न कल्पते ॥ ३५१० ॥ आह सूत्रेणानुज्ञातमवस्थानमतस्तेन सह विरोधः प्रामोति ? सूरिराह
सुत्तनिवाओ पोराण आगमे भोइए व रक्खंते ।
आराम अहेविगडे, वंसीमूले व णिदोंसे ॥ ३५११॥ पुराणं-चिरन्तनं यदागमनगृहं तत्र सागारिकः सम्प्रति कोऽपि नागच्छति, यद्वा यत्रागमनगृहे स्थितानां भोजिकः-ग्रामस्वामी जनमुपागच्छन्तं रक्षति, ईदृशे 'सूत्रनिपातः' सूत्रावतारो. मन्तव्यः । तथा य आरामो नवमालिकागुल्मादिभिर्गुप्तस्तत्राधोविवृते सूत्रमवतरति । वंशीमूल
मपि यद् निर्दोषं तत्र सूत्रावतारः॥ ३५११॥ अथैनामेव नियुक्तिगाथां भाष्यकारः स्पष्ट यतिib अभुञ्जमाणी उ सभा पवा वा, गामेगपासम्मि ण याऽणुपंथे ।
पभू व वारेति जणं उ-तं, ण कुप्पती सो य तहिं तु ठंति ॥ ३५१२ ॥ सभा वा प्रपा वा या अपरिभुज्यमाना ग्रामस्यैकपार्थे भवति, 'न च' नैव 'अनुपथे' मार्गाभ्यणे यद्वा भुज्यमानायामपि यत्र स्थितानां 'प्रभुः' ग्रामखामी सम्यग्दृष्टिर्भद्रको वा जनमुपयान्तं निवारयति, ‘स च' जनो वार्यमाणः साधूनां ग्रामवामिनो वा न कुप्यति 'तत्र' ईदृशे आग20 मनगृहेऽपि तिष्ठन्ति ॥ ३५१२॥
गुम्मेहि आरामघरम्मि गुत्ते, वईय तुंगाय व एगदारे ।
अहे अगुत्ते छइतम्मि ठंती, ण जत्थ लोगो बहु सण्णिलेति ॥ ३५१३ ॥ 'गुल्मैः' नवमालिका-कोरिण्टकादिभिर्गुप्ते, वृत्या वा 'तुङ्गया' उच्चस्तरया परिक्षिप्ते, एकद्वारे आरामगृहे अधोऽगुप्तेऽप्युपरि 'छादिते' स्थगिते तिष्ठन्ति, परं यत्र 'बहुः' भूयान् लोको न 25 'सन्निलीयते' न समायाति ॥ ३५१३ ॥
जं वंसिमूलऽण्णमुहं च तेणं, 'पिहढुवार ण तओ उ छिंडी।
सुणेति सदं न परोप्परस्स, न काइयं णेव य दिहिवातो ॥ ३५१४ ॥ यद् 'वंशीमूलम्' अलिन्दकादि 'तेन' मूलगृहेण सहान्यतोमुखं पृथग्द्वारं च, अत एव 'ततः' तदभिमुखा छिण्डिका न भवति, यत्र च परम्परं संयता अविरतिकाश्च शब्दं न शृण्वन्ति, 30 न चैकत्र कायिकी कुर्वते, नैव च परस्परं दृष्टिपातः, केवलं मूलगृहेण सह द्रव्यतः प्रतिबद्धम् , न चाप्काययोजनादयो दोषाः, एवंविधे कल्पते वस्तुम् ॥ ३५१४ ॥
___ असई य रुक्खमूले, जे दोसा तेहिं वज्जिए ठंति । १ पिहं नु दारं न ततो य छिंडी ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org