________________
10
भाष्यगाथा: ३४८३-९१] द्वितीय उद्देशः ।
९७३ आगंतुगारत्थिजणो जहिं तु, संठाति जं चाऽऽगमणम्मि तेसि । तं आगमोगं तु विऊ वदंति, सभा पवा देउलमादियं वा ॥ ३४८६ ॥ आगन्तुकः-पथिकादिरगारस्थजनो यत्रागत्य सन्तिष्ठते, यच्च 'तेषां' पथिकादीनामागमने वर्तते, तद् 'आगमौकः' आगमनगृहं 'विद्वांसः' श्रुतधरा वदन्ति । तच्च सभा वा प्रपा वा देवकुलादिकं वा मन्तव्यम् ॥ ३४८६ ॥ तत्र तिष्ठन्तीनां दोषानाह
आगमणगिहे अजा, जणेण परिवारिया अणजेण ।
दटुं कुलप्पसूता, संजमकामा विरजंति ॥ ३४८७ ॥ आगमनगृहे स्थिता आयी अनार्येन जनेन परिवारिता दृष्ट्वा कुलप्रसूताः स्त्रियः 'संयमकामाः' प्रव्रज्यां ग्रहीतुमनसो विरज्यन्ते ॥ ३४८७ ॥ कथम् ? इत्याह
उवस्सए एरिसए ठियाणं, ण सीलभारा सगला भवंति ।
को दाणि हंसेण किणेज काकं, एवं नियत्तंति कुलप्पसूया ॥ ३४८८॥ ईदृशे उपाश्रये स्थितानामार्यिकाणां शीलं-ब्रह्मचर्य तत्प्रधाना भाराः-संयमयोगधुरालक्षणाः 'सकलाः' सम्पूर्णा न भवन्ति, किन्तु खण्डित-विराधिताः; अस्माकं च सुसंवृतगृहमध्यमध्यावसन्तीनां प्रत्यपायाभावाद् निष्कलङ्क शीलमनुपालयन्तीनां हंसकल्यो गृहवासः, एवंविधे तु तरुणादिप्रत्यपायबहुले प्रतिश्रये तिष्ठन्तीनां या प्रव्रज्या सा बहुदोषमलीमसतया काककल्पा, अतः 15 क इदानीं हंसेन काकं क्रीणीयात् ? । एवं विचिन्त्य कुलप्रसूताः स्त्रियः प्रव्रज्याग्रहणाद् निवतन्ते ॥ ३४८८ ॥ अथाव विशेषदोपानभिधिरखंराह
काइय पडिलेह सज्झाए, मुंजणे वीयारमेव गेलण्णे ।
साणादी उवगरणे, तरुणाई जे भणिय दोसा ॥ ३४८९ ॥ ___ कायिक्यां प्रत्युपेक्षणायां स्वाध्याये भोजने विचारे ग्लानत्वे च दोषा भवन्ति । श्वानादिना 20 चोपकरणमपहियते । तरुणादयश्च दोषा ये प्रथमोद्देशके भणितास्तेऽत्र मन्तव्या इति' नियुक्तिगाथासमासार्थः ॥ ३४८९ ॥ अथ व्यासाथ प्रतिद्वारं विभणिषुराह
मोयस्स वायस्स य सण्णिरोहे, गेलण्ण णीसट्टमसण्णिरोहे ।
पलोट्टणा घाण ससद्द मत्ते, आतोभया तत्थ भवंति कीवे ॥ ३४९० ॥ यद्यागमनगृहे स्थिताः सागारिकमिति कृत्वा मोकस्य वातस्य वा सन्निरोधं कुर्वन्ति ततो 'ग्लान्यं' 25 ग्लानत्वं भवति । अथ तयोः सन्निरोधं न कुर्वते ततो 'निसृष्टाः' निर्लज्जा भवेयुः । अथ मात्रके कायिकी व्युत्सृजन्ति ततो मात्रकस्य प्रलोटनायां दुरभिगन्धघ्राणिः समुच्छलति । मात्रके च सशब्दं प्रश्रवणमागच्छति, तं च श्रुत्वा सागारिका उड्डाहं कुर्वन्ति । आत्म-परोभयसमुत्थाश्च तत्र दोषा भवन्ति । तत्रात्मसमुत्थदोषा नाम-सा संयती स्वयं क्षुभ्येत । परसमुत्थस्तु “कीवे" त्ति शब्दक्लीबः संयत्याः कायिकीशब्दं श्रुत्वा क्षुभ्येत । उभयसमुत्थस्तु द्वावपि क्षुभ्येताम् ॥३४९०॥30
पेहिंति उड्डाह पवंच तेणा, अपेहणे सोहि तिहोवहिस्सा ।
कीरंतऽकीरंत सुते य दोसा, ण णिति भिक्खस्स निरुद्धमग्गा ॥ ३४९१ ॥ १ सुरिगाथामाह भा० ॥२°ति द्वारगा भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org