________________
९७४
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् ११ यदि संयत्यः सागारिके पश्यति खकीयमुपकरणं प्रत्युपेक्षन्ते तत उड्डाहो भवति, प्रपञ्चं वा स सागारिकः कुर्वीत, तथैव खकीयं वस्त्रं प्रत्युपेक्षेत इत्यर्थः । स्तेना वा तं सारोपछि प्रत्युपेक्ष्यमाणं दृष्ट्वा हरेयुः । अथैतद्दोपभयाद् न प्रत्युपेक्षन्ते ततस्त्रिविधोपधेः 'शोधिः' प्रायश्चित्तम् । तद्यथा-जघन्ये पञ्चकम् , मध्यमे मासलघु, उत्कृष्ट चतुर्लघु । 'श्रुते' खाध्याये क्रियमाणे । सागारिका आलापकान् आगमय्य तथैव उद्दट्टयेयुः । अथ स्वाध्यायो न क्रियते ततः सूत्रार्थनाशादयो दोषाः । तथा सागारिकैर्निष्कमण-प्रवेशस्थानोपविष्टैर्निरुद्धमार्गाः सत्यो न भैझाय 'निर्गच्छन्ति' निर्गन्तुं शक्नुवन्तीति भावः ॥ ३४९१॥
दुक्खं च भुंजंति सति द्वितेसु, तकिंति देंते य अति दोसा ।
भुंजंति गुत्ता अधिकारिया उ, कुलुग्गया किं पुण जा अतोया ॥ ३४९२ ॥ 10 सागारिकेषु तत्र 'सदा' नित्यमेव स्थितेषु संयत्यो दुःखं भुञ्जते । अथ तेषां मध्यात्
कश्चिद् द्रमकप्रायः 'तर्कयति' आहारयाच्यां करोति ततो यदि दीयते तदा असंयतपोषणादधिकरणम् ; अथ न दीयते ततोऽसौ प्रद्वेषं गच्छेत् , प्रद्विष्टश्च प्रान्तापनम् उड्डाहम् अभ्याख्यानप्रदानं वा कुर्यात् ; एवमुभयथाऽपि दोषाः । किञ्च कुलोद्गताः स्त्रियः 'गुप्ताः' एकान्ते स्थिता
अधिकारिण्यश्च भुञ्जते, किं पुनर्याः 'अतोयाः' शीतोदकविरहिताः संयत्यः काञ्जिकेनाचमन15 कारिण्य इत्यर्थः ? ताभिः सुतरामेकान्ते भूत्वा भोक्तव्यमिति ॥ ३४९२ ॥
वीयारभोमे वहि दोसजालं, णिसह-वीभच्छकया य अंतो ।
कीरंत किच्चे य गिलाण दोसा, कालोदिवत्ती य तहोसहस्स ॥ ३४९३ ॥ यदि सागारिकमिति मत्वा विचारभूमौ बहिर्गच्छन्ति ततः 'दोषजालं' मासकल्पप्रकृता. भिहितं दूषणनिकुरुम्बं ढौकते । अथैतद्दोषभयादन्तः संज्ञां व्युत्सृजेयुः ततः सागारिकालोके 20 व्युत्सृजन्त्यो निसृष्टाः-निर्लज्जा वीभत्साश्च गण्यन्ते, तत्कृताश्चोड्डाहादयो दोषाः । ग्लानायाश्च संयत्याः 'कृत्ये' अकल्प्यपथ्यौषधप्रदानादौ क्रियमाणे सागारिका वदेयुः-एतदमूषामकल्पनीयं परमेतदपि प्रतिसेवन्ते, नूनं सर्वमप्यलीकममूषामित्यादयो दोषाः । अथ सागारिकमिति मत्वा न क्रियते तत औषधस्य कालातिपत्तिः स्यात् , कालातिक्रमेण चौषधे दीयमाने ग्लाना परितापमश्नुयात् ॥ ३४९३ ॥ 25 हरंति भाणाइ सुणादिया य, सयंति भीया व वसंति णिचं ।
णिचाउले तत्थ णिरुद्धचारे, णेगग्गया होति को सि झाओ ॥ ३४९४ ॥ तत्रागमनगृहे शुनकादयः प्रविश्य भाजनादिकं हरन्ति । ततः 'नित्यम्' अहोरात्रमपि तत्र श्वानादिभयभीताः शेरते वा वसन्ति वा । 'नित्याकुले च' सदैव सागारिकैराकीर्णेऽत एव _ 'निरुद्धचारे' गमा-5ऽगमरहिते तत्रैकाग्रता न भवति, कुतः स्वाध्याय: "सिं' अमूषां 30 भविष्यति ? ॥ ३४९४ ॥
तरुणा-वेसिस्थि-विवाह-रायमादीसु होति सतिकरणं । .---१ °क्खं ति भुं ताभा० भा० विना ॥ २ लातिपत्ती ताभा० ॥ ३ 'चारे नैकाग्रता भवति । कुतः पुनः स्वाध्यायः "से" तस्य भविष्यति ? इति । भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org