SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 10 ९७२ सनियुक्ति-लघुभाष्य-वृत्तिकै बृहत्कल्पसूत्र [ उपाश्रयप्रकृते सूत्रम् ११ ___ यत्रोपाश्रये कुम्भ्यां वा करभ्यां वा पल्ये वा माले वा मञ्चे वा चशब्दात् कोष्ठे वा प्रक्षितानि पिण्डप्रभृतीनि भवन्ति, तानि चावलिप्तानि पिहितानि मुद्रितानि वा भवेयुः, ईदृशे न कल्पते वस्तुम् ॥ ३४८२ ॥ तथा चाह उडुबद्धम्मि अईते, वासावासे उवाहिए संते । ठायंतगाण गुरुया, कास अगीतत्थ सुत्तं तु ॥ ३४८३ ।। ऋतुबद्धे काले व्यतीते वर्षावासे चोपस्थिते । यद्यपि सूत्रेण तत्रोपाश्रये स्थातुमनुज्ञातं तथापि न कल्पते, » यदि तिष्ठन्ति ततश्चतुर्गुरुकाः । शिप्यः पृच्छति-कस्य पुनरेतत् प्रायश्चित्तम् ? । सूरिराह-अगीतार्थस्य । सूत्रं पुनर्गीतार्थमधिकृत्य प्रवृतम् । शेषं पिण्डामिलापेन तथैव वक्तव्यम् ॥ ३४८३ ॥ आगमनगृहादिसूत्राणि ११-१२ सूत्रम् नो कप्पइ निग्गंथीणं अहे आगमणगिहंसि वा वियडगिहंसि वा वंसीमूलंसि वा रुक्खमूलंसि वा अब्भावगासियंसि वा वस्थए ११ ॥ 15 इह निर्ग्रन्थ-निर्ग्रन्थीनां सामान्यतः सदोषा उपाश्रया उक्ताः, अथ केवलानामेव निम्र न्थीनामभिधीयन्त इत्यनेन सम्बन्धेनायातस्य :- अस्य व्याख्या--अधःशब्द इह अवशव्दार्थे । पथिकादीनामागमनेनोपेतं तदर्थ वा गृहमागमनगृहम् । विवृतम्-अनावृतं गृहं विवृतगृहम् । वंसीमूलं नाम-गृहाद् बहिःस्थितमलन्दकादिकम् । वृक्षमूलं तु वृक्षस्य-सहकारादेः मूलम् अधोभागः । अभावकाशमाकाशमुच्यते । एतेषु प्रतिश्रयेषु निम्रन्थीनां वस्तुं न कल्पते इति 20 सूत्रसङ्केपार्थः ॥ अत्र भाप्यविस्तरः आगमणे वियडगिहे, बंसीमूले य रुक्खमभासे । ठायंतिकाण गुरुगा, सत्थ वि आणादिणो दोसा ॥ ३४८४ ॥ आगमनगृहे विवृतगृहे वंसीमूले वृक्षमूलेऽभ्रावकाशे च तिष्ठन्तीनां निम्रन्थीनां चत्वारो गुरुकाः । तत्राप्याज्ञादयो दोषा मन्तव्याः ।। ३४८४ ॥ अथवा आगमगिहादिएसं, भिक्खुणिमादीण ठायमाणीणं । गुरुगादी जा छेदो, विसेसितं चउगुरू वा सिं ॥ ३४८५ ।। आगमनगृहादिपु भिक्षुण्यादीनां तिष्ठन्तीनां चतुर्गुरुकमादौ कृत्वा छेदं यावत् प्रायश्चित्तम् । तद्यथा-भिक्षुण्याश्चतुर्गुरुकम् , अभिषेकायाः षड्लघुकम् , गणावच्छेदिन्याः षड्गुरुकम् , प्रवतिन्याश्छेदः । यद्वा "सिं" आसां चतसृणामपि तपः-कालविशेषितं चतुर्गुरुकं भवति । तत्र 50 भिक्षुण्यास्तपसा कालेन च लघुकम् , अभिषेकायाः कालेन गुरुकम् , गणावच्छेदिन्यास्तपसा गुरुकम् , प्रवर्तिन्यास्तपसा कालेन च गुरुकम् ॥ ३४८५ ॥ अथागमनगृहं व्याचष्टे१-२॥ एतचिहान्तर्गतः पाठः भा० नास्ति ॥ ३°ह अथश° भा० । ६ वाश° त० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy