________________
९६८ ___ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् ७-८ ततः स्थानाद् 'अवरोहणं' सामणं विधेयम् । अथ शृङ्खलादीपोऽसौ न ततः स्थानादवतारयितुं शक्यते ततो लालाया अवसर्पणमुत्सर्पणं वा कुर्यात् । श्वान-गवादीनां च 'छक्कारणं' छिछिरिति प्रतिषेधकरणेन, वारणं वा दण्डादिदर्शनेन, अपकर्षणं वा वर्तेः कर्त्तव्यम् ॥ ३४६९ ॥ अथोत्सर्पणमवसर्पणं च व्याख्यानयति
संकलदीवे वत्तिं, उन्वत्ते पीलए व मा डज्झे।
रूएण व तं नेहं, घेत्तूण दिवा विगिचिंति ॥ ३४७० ॥ 'शृङ्खलादीपे' स्थानान्तरं सङ्कामयितुमशक्ये वर्तिमुहर्तयेद्वा निष्पीडयेद्वा, ‘मा दातां' मा प्रदीप्यतामिति कृत्वा । रूतेन वा 'त' प्रदीपवर्त्तिनं 'स्नेहं' तैलं गृहीत्वा ततो दिवा "विगिचंते"
परिष्ठापयन्ति ।। ३४७० ॥ 10
हेट्टा तणाण सोहण, ओसकेऽभिसक अन्नहिं नयणं ।
आगाढ़े कारणम्मि, ओसक हिसकणं कुज्जा ॥ ३४७१ ॥ प्रदीपस्याधस्तात् तृणानां शोधनं कर्त्तव्यम् । यद्वा तं प्रदीपमवसर्पयति वा अभिसर्पयति वा अन्यत्र वा नयति सङ्कामयतीत्यर्थः । एतच्चांवसर्पणमभिसर्पणं वा आगाढे कारणे समुत्पन्ने गीतार्थः कुर्यात् , नानागढे ॥ ३४७१ ॥ 18 मज्झे व देउलाई, बाहिं व ठियाण होइ अतिगमणं ।
जे तत्थ सेहदोसा, ते इह आगाढ़ें जयणाए ॥ ३४७२ ॥ "ते साधवो विकाले सम्प्राप्ताः सन्तः सप्रदीपे देवकुले स्थिता भवेयुः । - यद्वा प्रामादेमध्ये देवकुलम् , आदिशब्दात् प्रपा-सभादिकं वा, तच्च दिवा सागारिकाकुलं तत्र प्रभातेऽपि समागता दिवा बहिः स्थित्वा सन्ध्यायां तत्र प्रविशन्ति । यद्वा बहिःस्थितानां 20 'स्तेन-श्वापदादिभयमत्र रात्रौ भवति' इति श्रुत्वा ग्राममध्ये 'अतिगमनं प्रवेशो भवति, तत्र च सप्रदीपायां वसतौ स्थितैयें पूर्व शैक्षविषयाः प्रतापनादयो दोषा उक्ताः ते इहागाढे कारणे यतनया परिहर्त्तव्याः ॥३४७२।। यदि प्रमादतः प्रदीपनकं मवेत् ततः को विधिः? इत्याह
___अन्नाए तुसिणीया, नाए दट्टण करण सविउलं ।
पाहि देउल सद्दो, समागयाणं खरंटो य ॥ ३४७३ ।। 28 यदि केनापि न ज्ञातम् यथा-'अत्र संयताः स्थिताः सन्ति' ततस्तूष्णीका भूत्वा पलायन्ते । अथ ज्ञातम्-'संयता अन्न स्थिताः सन्ति' इति ततः प्रदीप्तं दृष्ट्वा महता शब्देन 'सविउलं' बोलं कुर्वन्ति यावद् भूयान् जनो मिलितः । ततो बहुजनस्य पुरतो भणन्ति-पश्यत पश्यत केनापि पापेन प्रदीपनकं कृतमिति । यद्वा देवकुलाद् बहिर्निर्गत्य तथैव 'शब्दः' बोलः क्रियते, समागतानां लोकानां खरण्टना कर्तव्या-नूनं युष्माभिरेवैतत् प्रदीपितं येनैते श्रमणा दह्यन्ते, ० असाकं चोपकरणं सर्वमप्यत्र दग्धम् । एवं खरण्टिताः सन्तो न किञ्चिदुल्लपन्ति ॥ ३४७३ ।।
यति वा निष्पीडयति वा 'मा भा० ॥ २ कातिस' तामा० ॥ ३'कास तामा• विना ॥ ४ एतचिहान्तर्गतः पाठः मा० नास्ति । ५प्रामान्तः 'भति° भा•॥ ६ शैक्षादयो दोषाः मा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org