________________
६६० सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ अपावृतद्वारोपाश्रयप्र० सू० १४
अनेन सम्बन्धेनायातस्यास्य व्याख्या
नो कल्पते 'निर्ग्रन्थीनी' तिनीनाम् 'अपावृतद्वारके' उद्घाटद्वारे उपाश्रये वस्तुम् । सकपाटोपाश्रयालाभेतु तत्रापि वसन्तीभिरित्थं विधिविधेयः-एक 'प्रस्तारं' कटम् 'अन्तः' प्रति
श्रयाभ्यन्तरे कृत्वा एकं प्रस्तारं बहिः कृत्वा ततः 'अवघाटितचिलिमिलिकाके' अवघाटिताउबद्धा चिलिमिलिका यत्र स तथा ईदृशे उपाश्रये 'एवम्' अनन्तरोक्तेन विधिना "गं" इति वाक्यालङ्कारे कल्पते वस्तुमिति सूत्रसङ्केपार्थः ॥ विस्तरार्थं तु भाष्यकृदाह
दारे अवंगुयम्मी, निग्गंथीणं न कप्पए वासो ।
चउगुरु आयरियाई, तत्थ वि आणाइणो दोसा ॥२३२७ ॥ 'अपावृते' उद्घाटिते द्वारे, र उद्घाटद्वारे उपाश्रये इत्यर्थः । निर्ग्रन्थीनां न कल्पते वासः । 10 अत्र चैतत् सूत्रमाचार्यः प्रवर्तिन्या न कथयति चतुर्गुरु, प्रवर्तिनी संयतीनां न कथयति चतुर्गुरु,
आर्यिका यदि न प्रतिशृण्वन्ति ( ग्रन्थाग्रम्-४५०० । सर्वग्रन्थानम्-१६७२० ।) तदा तासां मासलघु । 'तत्रापि' अकथनेऽश्रवणे चाज्ञादयो दोषा द्रष्टव्याः ॥ २३२७ ॥
दारे अवंगुयम्मी, भिक्खुणिमादीण संवसंतीणं ।
गुरुगा दोहि विसिट्ठा, चउगुरुगादी व छेदंता ॥ २३२८ ॥ 15 राउंपाश्रयसम्बन्धिनि » द्वारेऽपावृते सँति » भिक्षुण्यादीनां संवसन्तीनां 'द्वाभ्यां'
तपः-कालाभ्यां विशिष्टाश्चतुर्गुरुकाः । प्रायश्चित्तम् । तद्यथा-भिक्षुण्याश्चतुर्गुरुकं तपसा कालेन च लघु, अभिषेकायास्तदेव कालगुरु तपोलघु, गणावच्छेदिन्यास्तपोगुरु काललघु, प्रवतिन्या द्वाभ्यामपि गुरुकम् । चतुर्गुरुकादयो वा छेदान्ताः १ प्रायश्चित्तविशेषा » भवन्ति, तद्यथा- भिक्षुण्या अपावृतद्वारे वसन्त्याश्चतुर्गुरुकम् , अभिषेकायाः षड्लघुकम् , गणावच्छे20 दिन्याः षड्गुरुकम् , प्रवर्तिन्याश्छेद इति ॥ २३२८ ।। अत्र दोपानाह
तरुणे वेसित्थीओ, विवाहमादीसु होइ सइकारण ।
इच्छमणिच्छे तरुणा, तेणा ताओ व उवहिं वा ॥ २३२९ ॥ अस्या व्याख्या अनन्तरसूत्रवद् (गा० २३०४ ) द्रष्टव्या ॥ २३२९ ॥ १°नां' साध्वीनाम् त• डे० ॥ २°भे च त° त० डे० ॥ ३ °यः, तद्यथा-एकं त• डे० ॥
४ मो० ले० विनाऽन्यत्र-कृत्वा ततश्चिलिमिलिकया अवघाटिते-पिहिने सति द्वारे, सूत्रे च अवघाटितशब्दस्य पूर्वनिपातः प्राकृतत्वात् , 'एवम् अनन्त भा० त० डे० ॥ ५ एतन्मध्यगतः पाठः भा० त० डे. नास्ति ॥ ६ त्राप्याज्ञा भा० ॥ ७-८-९-१० एतचिह्नमध्यगतः पाठः भा० त० डे. नास्ति ॥ ११ °व्या । तत्र गमनिकामात्रं तूच्यते-तत्रापावृतद्वारे उपाश्रये तिष्ठन्तीनां संयतीनां तरुणान् वेश्यास्त्रियो वा दृष्ट्वा विवाह-नृपति प्रवेशादिषु वा दृष्टेषु स्मृतिकरणम् उपलक्षणत्वात् कौतुकं निदानगमनं वा भवेत् । तरुणान् वाऽवभापमाणान् यदि सा प्रतिसेवितुमिच्छति ततो वतविराधना, अथ नेच्छति ततो बलादपि ते संयतीगुण्हीयुः। तथा स्तेना वा संयतीरपहरेयुः उपधि वा तासामपहरेयुरिति ॥ २३२९ । किञ्च-त. डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org