SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २३२७-३२ ] प्रथम उद्देशः । अने वि होंति दोसा, सावय तेणे य मेहुणट्ठी य । वणी अगारीसु य, दोचं संछोभणादीया || २३३० ॥ अन्येऽप्यभ्यधिका अत्र दोषा भवन्ति । तत्रापावृतद्वारे उपाश्रये श्वापदो वा स्तेनो वा चशब्दात् श्वानो वा प्रविशेयुः, तैश्च यद्विराधनां प्राप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम् । 'मैथुनार्थी वा' उद्भामकः प्रविशेत् स बलादप्युदारशरीरां संयतीं गृह्णीयात् । व्रतिनीषु वा मध्ये 5 काचिद् व्रतिनी मोहोद्भवेन कस्यापि गृहिणी गृही वा तस्याः संयत्याः प्रसुप्तासु शेषसाध्वीषु रात्रौ काञ्चिदगारीं प्रेष्य दौत्यं कारापयेत् । अगारीषु वा मध्ये काचित् संछोभणं - परावर्त्तं कुर्यात्, संयतीसंस्तारके सा अगारी संयती सत्कानि वस्त्राणि प्रावृत्य शयीत संयती तु तदीयानि वस्त्राणि प्रावृत्यागारस्य सकाशं गच्छेदित्यर्थः । यस्मादेवमादयो दोषास्तस्मादपावृतद्वारे प्रतिश्रये साध्वीभिर्न स्थातव्यम् ॥ २३३० ॥ द्वितीयपदे तिष्ठेतां ( तिष्ठन्तीनां ) विधिमाह - ६६१ पत्थारो अंतो बहि, अंतो बंधाहिं चिलिमिलि उवरिं । पडिहारि दारमूले, मत्तग सुवणं च जयणाए ।। २३३१ ॥ प्रस्तीर्यत इति प्रस्तारः, स च द्विधा - अन्तर्बहिश्च । 'अन्तः' अभ्यन्तरप्रस्तारे "बंधाहि "न्ति 'बधान' नियन्त्रय चिलिमिलीमुपैरिष्टात् । ततः प्रतिहारी द्वारमूले तिष्ठति । 'मात्रकं' मोकव्यु - त्सर्जनं वपनं च यतनया कर्त्तव्यमिति" निर्युक्तिगाथासमासार्थः ॥ २३३१ ॥ 15 अथ विस्तरार्थमाह असई य कवाडस्सा, बिदलकडादी अ दो कडा उभओ । फरमुट्ठियस्स सरिसो, बाहिरकडयम्मि बंधो उ ॥ २३३२ ॥ यदि द्वारं कपाटसहितं भवति ततः सुन्दरमेव । अथ कपाटं नास्ति ततः कपाटस्यासति १ मो० ले० विनाऽन्यत्र – गृहिणः पार्श्वे दूत प्रक्षेपयेत्, गृही वा कश्चित् तस्याः त० डे० । गृहिण दूतप्रेषयेत्, 'अगारिषु वा' गृहस्थेषु कश्चित् प्रसुप्तासु शेषसाध्वीषु रात्रौ कस्याश्चिद् व्रतिन्या दौत्यं कारापयेत्, दूतीं प्रेषयेदित्यर्थः । "संछोभण" ति परावर्त्तः, स चायम् - संयती संस्तारके अन्या काचिदविरतिका संयतीसत्कानि वस्त्राणि प्रावृत्य शयेत् ( शयीत ) संयती तु तदीयानि वस्त्राणि प्रावृत्यागारिणः समीपं गच्छेत्, अगारो वा संयती सकाशमागच्छेत् ॥ २३३० ॥ यस्मादेवमादयो दोषास्तस्मात् किं कर्त्तव्यम् ? इत्याह- पत्थारो गाथा भा० । Jain Education International " संजती काइ मोहुब्भवेण गिहिणो दूतीं पेसेज्जा, अगारो वा रतिं पासुत्तासु दूतीं पेसेज्जा । 'संछोम' त्ति संजति संथारए अन्ना गिहत्थी संजतिश्चियाणि वत्थाणि पाउणित्ता तत्थ निवजेज्जा संजती गच्छेजा, अगारो वा संजेतिसगास एज्जा | जम्हा एते दोसा तम्हा " एयं पत्थारं अन्तो कृत्वा ” सूत्रमुच्चारयितव्यम् ॥ पत्थारो अंतो ० गाद्वा" इति चूर्णौ विशेषचूर्णौ च ॥ २ष्ठतां किं कर्त्तव्यम् ? इत्याह- त० डे० ॥ ३ भा० विनाऽन्यत्र - 'प्रस्तारः' कटः । स च द्वयोः स्थानयोर्विधातव्यः, तद्यथा--अन्त त० डे० ॥ ४ मो० ले० विनाऽन्यत्र - परि । प्रति° मा० । परि । विधिना कायिकी व्युत्सर्जनीया । प्रति त० डे० ॥ ५°ति द्वारगाथा' भा० ॥ For Private & Personal Use Only 10 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy