________________
६६२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अपावृतद्वारोपाश्रयप्र० सू०१४ प्रस्तारः क्रियते । प्रस्तारः-कटः, स च 'द्विदलकटादिः' द्विदलं-वंशदलं तन्मयः कटो द्विदलकटः, आदिशब्दात् शरकटः परिगृह्यते । ईदृशौ द्वौ कटौ द्वारस्योभयतः क्रियेते, एकोऽभ्यन्तरे द्वितीयो बहिरित्यर्थः । ततः स्फरकस्य या मुष्टि:-ग्रहणस्थानं तस्य सदृशो बन्धो बाह्यकटेऽभ्यन्तरतो दातव्यः ॥ २३३२ ॥ स च बन्धः किम्मयः कर्तव्यः ? इत्याह
सुत्ताइरञ्जुबंधो, दुछिड्ड अभितरिल्लकडयम्मि ।
हेट्ठा मज्झे उवरिं, तिनि व दो वा भवे बंधा ॥ २३३३ ॥ ___ सूत्रस्य आदिशब्दाद् वल्कस्य वा ऊर्णाया वा या रज्जुः-दवरकः परिस्थूरो दृढश्च तस्य बन्धो बाहकटे स्फरमुष्टिकसदृशो दातव्यः, अभ्यन्तरकटे च द्वे छिद्रे कर्तव्ये । कथम् ? इति
अत आह-"हेट्ठा मज्झे उवरिं" ति मध्ये स्फरकमुष्टेरनुश्रेण्यामेवाधस्तादुपरि च च्छिद्रद्वयं 10 कर्त्तव्यम्, ततो बाह्यकटस्य स्फरकमुष्टौ दवरको दृढं प्रवेश्य पश्चादभ्यन्तरकटस्य द्वयोरपि च्छिद्रयोः प्रक्षिप्य ततोऽभ्यन्तरेण निष्काश्य निबिडं बन्धनीयः, ईशा द्वौ वा त्रयो वा बन्धा बध्यन्ते । अभ्यन्तरप्रस्तारस्य चोपरि चिलिमिली बध्यते, सा च तान् बन्धान् गोपयति । तथा च ते बन्धा बध्यन्ते यथा प्रतिहारी मुक्त्वा अन्या काचिन्न जानाति ॥ २३३३ ॥ आह सा प्रतिहारी कीडग्गुणान्विता स्थापनीया ? इति उच्यते
कारण उवचिया खलु, पडिहारी संजईण गीयत्था ।
परिणय भुत्त कुलीणा, अभीरु वायामियसरीरा ॥ २३३४ ॥ कायेनोपचिता न कृशशरीरा, 'गीतार्था' सम्यगधिगतसूत्रार्था, परिणता वयसा बुद्ध्या च, "भुत्त" त्ति भुक्तभोगिनी, 'कुलीना' विशुद्धकुलोत्पन्ना, 'अभीरुः' न कुतश्चिदपि स्तेनोद्भामका
देर्विविधां बिभीषिकां दर्शयतोऽपि बिभेति, "वायामियसरीर" ति व्यायामः-खेदस्तत्सहशरीरा 20 समर्थदेहा इत्यर्थः, ईदृशी खलु संयतीनां प्रतिहारी स्थापयितव्या ॥ २३३४ ॥ सा च किं करोति ? इत्याह
आवासगं करित्ता, पडिहारी दंडहत्थ दारम्मि।
तिनि उ अप्पडिचरिउं, कालं घेत्तूण य पवेए ॥ २३३५ ॥ 'आवश्यक' प्रतिक्रमणं कृत्वा प्रतिहारी दण्डकहस्ता अग्रद्वारे तिष्ठति । ततश्च "तिन्नि उ" 25 ति तिस्रः संयत्यः कालप्रत्युपेक्षणार्थ निर्गच्छन्ति । "अप्पडिचरियं" ति प्रादोषिकं कालं यथा साधवः प्रतिजागरितं गृहन्ति तास्तथा न इति गृहीत्वा च कालं ततः प्रवर्तिन्या निवेदयन्ति । निवेद्य च खाध्याये प्रस्थापिते सर्वा अपि खाध्यायं कुर्वन्ति ॥ २३३५ ॥ कथम् ? इत्याह
15
१°स्तारो नाम 'द्विदलकटादिकः कटः' द्विदलं भा० ॥ २°न्धोऽभ्यन्तरकटे दात भा० ॥ ३ °यः कथं वा कर्त्तव्यः? इत्युच्यते भा० ॥ .४ सौत्रः-सूत्रमयः परिस्थूरो द्रढीयांश्च या रजुः-दवरक आदिशब्दाद् वल्कलमय और्णिको वा तस्य बन्धः स्फर भा० ॥ ५°धा दातव्या भवन्ति । अभ्य भा०॥
६'ति । सा च प्रतिहारी द्वारमूले संस्तारयति ॥ २३३३ ॥ आह मा० । “सां य पडिहारी दारमूले सुवतीति वाक्यशेषः" इति चूर्णौ । “पडिहारी दारमूले ठाह" इति विशेषचूर्णौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org