________________
६६३
भाष्यगाथाः २३३३-४०] प्रथम उद्देशः ।
ओहाडि यदाराओ, पोरिसि काऊण पढमए जामे ।
पडिहारि अग्गदारे, गणिणी उ उवस्सयमुहम्मि ॥ २३३६ ॥ अवघाटित-चिलिमिलिकया पिहितं द्वारम्-अग्रद्वारं यासां ता अवघाटितद्वाराः सर्वा अपि प्रथमे यामे सूत्रपौरुषीं कृत्वा ततो मध्ये प्रविशन्तीति वाक्यशेषः । पौरुषी कुर्वाणानां च प्रतिहारी अग्रद्वारे तिष्ठति, 'गणिनी तु' प्रवर्तिनी उपाश्रयस्य मुखे-मूलद्वारे स्थिता खाध्यायं 5 करोति ॥ २३३६ ॥
उभयविसुद्धा इयरी, पविसंतीओ पवत्तिणी छिवइ ।
सीसे गंडे वच्छे, पुच्छइ नामं च का सि त्ति ॥ २३३७॥ उभयं-संज्ञा कायिकी च तद् विशुद्धं व्युत्सृष्टं याभिस्ता उभयविशुद्धाः, आहितान्यादेराकृतिगणत्वात् पूर्वापरनिपातव्यत्ययः, 'इतराः' संयत्यो यदा प्रविशन्ति तदा प्रविशन्तीरेव ताः 10 प्रवर्तिनी 'किमेषा संयती ? उत न ?' इति परिज्ञानार्थं 'शीर्षे' शिरसि ‘गण्डे' कपोले 'वक्षसि' हृदये एवं त्रिषु स्थानेषु परिस्पृशति नाम च पृच्छति-'का?' किं नामासि त्वम् ? इति ॥२३३७॥ स या' च तत्र प्रवेशसमये विलम्बते या वा सुप्तानामप्रस्तावे निर्गच्छति सा वक्तव्या
किं तुज्झ इक्कियाए, धम्मो दारं न होइ इत्तो उ।
न य निढरं पि भन्नइ, मा जियगद्दत्तणं हुजा ॥ २३३८॥ 15 किं तवैकस्या एव घों येनैवं निर्गच्छसि विलम्बसे वा! द्वारमितो न भवति, एवमन्यव्यपदेशेन मधुरवचनैः सा वक्तव्या । न च "निहुरं" कठोरं स्फुटमेव भण्यते, "मा जियगदत्तणं" ति 'जितलज्जत्वं' निर्लज्जता मा भूदिति हेतोः ॥ २३३८ ॥ ततश्च-»
सव्वासु पविट्ठासुं, पडिहारि पविस्स बंधए दारं ।
_ मज्झे य ठाइ गणिणी, सेसाओ चक्कवालेणं ॥ २३३९ ॥ . सर्वासु संयतीषु प्रविष्टासु प्रतिहारी प्रविश्य द्वार पूर्वोक्तविधिना बध्नाति । 'मध्ये च' मध्यभागे 'गणिनी' प्रवर्तिनी ‘तिष्ठति' संस्तारकं प्रस्तृणातीत्यर्थः, शेषास्तु संयत्यः 'चक्रवालेन' मण्डलिकया प्रवर्तिनी परिवार्य संस्तृणन्ति यथा परस्परं सुप्तानां न सङ्घट्टो भवति ॥ २३३९॥ आह किमर्थं न सङ्घट्टः क्रियते ? उच्यते
सइकरण कोउहल्ला, फासे कलहो य तेण तं मुत्तुं ।
किढि तरुणी किढि तरुणी, अभिक्ख छिवणा य जयणाए॥२३४०॥ 'स्पर्शे' अन्योऽन्यं सङ्घट्टने भुक्ता-ऽभुक्तानां स्मृतिकरण-कौतूहले भवतः । 'कलहश्च' अससडं च परस्परं भवति, यथा-अहं त्वया हस्तेन वा पादेन वा सङ्घट्टिता । तेन हेतुना 'त' स्पर्श मुक्त्वा 'किढी' स्थविरा सा प्रथमतः संस्तारकं करोति, ततस्तदन्तरिता तरुणी, पुनः स्थविरा, पुनस्तरुणी इत्येवं संस्तारकप्रस्तरणविधिः । 'यतनया च' यथा तासां स्मृतिकरणादि so
१-प्रदत्तचिलिमिलीकं द्वारं यासां भा० ॥ २०भा० प्रतावेतचिह्नगतमवतरणं गाथा तट्टीका च "सइकरण." २३४० गाथानन्तरं वर्तन्ते। दृश्यतां पत्र ६६४ टिप्पणी १ । चूर्णिकृताऽपीयं गाथा “सइकरण." गाथानन्तरं व्याख्याताऽस्ति ।
23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org