________________
10
15
भाष्यगाथाः २३२१-२६] प्रथम उद्देशः ।
'एतेषाम्' आपणगृहादीनामसति अवप्रतिपन्नादयो व्रतिन्यः 'वृषभैः' समर्थसाधुभिः 'बहिः' समन्ततो रक्षिताः सत्यः शून्येऽप्युपाश्रये वसेयुः । अथ वृषभा न भवन्ति ततस्तेषामभावे गृहिणाम्-अगारिणां निश्रया वृत्यादिभिः सुगुप्ते शून्येऽपि प्रतिश्रये वसन्ति । कथम् ? इत्याह'भोजिकस्य' ग्रामवामिनः 'ज्ञात' विदिनं कृत्वा, यथा-वयमत्र भवदीयबाहुच्छायापरिगृहीताः स्थिताः स्मः, अतो भवता अस्माकं सारा करणीयेति ।। २३२४ ॥ सूत्रम्
कप्पइ निग्गंथाणं आवणगिहंसि वा जाव अंत
रावणंसि वा वत्थए १३ ॥ १ अस्य व्याख्या प्राग्वत् ॥ अथ भाष्यम्
एसेव कमो नियमा, निग्गंथाणं पि नवरि चउलहुगा ।
सुत्तनिवातो अंतोमुहम्मि तह चेव जयणाए ॥ २३२५ ॥ ऐष एव क्रमो नियमाद् निर्ग्रन्थानामपि भवति, तेषामप्यापणगृहादिषु वसतां पूर्वोक्ता दीपा भवन्तीति भावः । नवरं चतुर्लघुकाः प्रायश्चित्तम् । आह ययेवं तर्हि सूत्रं निरर्थकम्, तत्र साधूनामापणगृहादिषु वस्तुमनुज्ञातत्वात्, नैवम्, कारणिक सूत्रम्, यद्यन्य उपाश्रयो न प्राप्यते । ततोऽन्तर्मुखे रथ्यागृहे स्थातव्यम्, अत्र 'सूत्रनिपातः प्रकृतसूत्रमवतरतीति भावः । तस्याभावे शेषेष्वपि तिष्ठतां तथैव यतना द्रष्टव्या ॥ २३२५॥
॥ रथ्यामुखापणगृहादिप्रकृतं समाप्तम् ॥
अपा वृ त द्वा रो पा श्र य प्र कृ त म् सूत्रम् -
नो कप्पइ निग्गंथीणं अवंगुयदुवारिए उवस्सए वत्थए । एग पत्थारं अंतो किच्चा एगं पत्थारं बाहिं किच्चा
ओहाडियचिलिमिलियागंसि एवं णं कप्पड़ वत्थए १४ ॥ अस्य सूत्रस्य सम्बन्धमाह-.
पडिसिद्धविवक्खेसुं, उवस्सएहिँ उ संवसंतीणं ।
बंभवयगुत्ति पगए, वारिंतऽनेसु वि अगुत्तिं ॥ २३२६ ॥ पूर्वसूत्रे प्रतिषिद्धानाम्-आपणगृहादीनां विपक्षा ये उपाश्रयाः कल्पनीया इत्यर्थः, तेषु संवसन्तीनां 25 व्रतिनीनां ब्रह्मचर्यगप्तिः प्रकृता, तदर्थं तेषु ताभिर्वस्तव्यमिति भावः । अतस्तस्याः प्रकृते प्रक्रमे 'अन्येष्वपि अप्रतिषिद्धेषु प्रतिश्रयेष्वपावृतद्वारतारूपामगुप्तिं वारयन्ति भगवन्तो भद्रबाहुस्वामिन इति ॥ २३२६ ॥ १२ एतन्मध्यगतः पाठः भा० त० ३० नास्ति ॥ २ अत्र भा॰ भा० त० डे० ॥
३ 'एष एव क्रमः' पूर्वोक्तदोपवक्तव्यतापरिपाटिरूपो निर्ग्रन्थानामप्यापणगृहादिषु वसतां भवति । नवरं चतुर्लघुकाः प्रायश्चित्तम् । अथान्यो निर्दोषः प्रतिश्रयो न प्राप्यते ततः कारणे स्थातव्यम् । तत्र च सूत्रनिपातः 'अन्तर्मुखे' रथ्यामुखगृहे । तस्याभावे भा० ॥
४°तः' सूत्रमवतरति । तस्याभावे आपणगृहादिपु शेषेवपि तिष्ठद्भिः 'तथैव' तेनैव विधिना यतनया स्थातव्यम् ॥ २३२५ ॥ सूत्रम्-त. डे० ॥ ५ °नां साध्वीनां ब्रह्म भा० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org