SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ६५४ ते तथाविधास्तान् ॥ २३०५ || अथ वेश्यास्त्रीद्वारमाह दडुं विउब्वियाओ, कुलडा धुत्तेहिँ संपरिवुडाओ । विब्बोय-पहसियाओ, आलिंगणमाइया मोहो || २३०६ ॥ 'विकुर्विताः' अलङ्कृताः 'कुलटा ः ' खैरिण्यः वेश्यास्त्रिय इत्यर्थः 'धूर्ते : ' षिङ्गैः 'सम्परिवृताः' 5 समन्ततो वेष्टिताः 'बिब्बोक - प्रहसिताः' बिब्बोको नामइष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः । ܘܪ 15 सनिर्युक्ति-लघुभाय-वृत्तिके बृहत्कल्पसूत्रे [ अपावृतद्वारोपाश्रयप्र० सू० १२ स्त्रीणामनादरकृतो, बिब्बोको नाम विज्ञेयः ॥ (नाट्य० अ० २२ श्लो० २१) प्रहसितं नाम - हास्याभिधानो रसविशेषः, अस्य च लक्षणमिदम् हास्यो हासप्रकृतिः, हासो विकृताङ्ग-वेष - चेष्टाभ्यः । भवति परस्थाभ्यः स च, भूम्ना स्त्री-नीच बालगतः ॥ (रु० का ० लं० अ० १५ श्लो० ११) -प्रहसिते विद्येते यासां ता बिब्बोक - प्रहसितवत्यः । गाथायां प्राकृतत्वाद् मतुप्रत्ययलोपः । एवंविधाः मणाङ्गना दृष्ट्वा तासां चालिङ्गनादिकाश्चेष्टाः क्रियमाणा निरीक्ष्य मोहः समुद्दीप्यते ॥ २३०६ ॥ अथ विवाहद्वारमाह— तत्थ चउरंतमादी, इब्भविवाहेसु वित्थरा रहया । भूसियस यणसमागम, रह- आसादीय निव्वहणा || २३०७ ॥ 'तत्र' आपणगृहादौ स्थितानां संयतीनामिभ्यविवाहेषु ये चतुरन्तादयों विस्तरा रचिताः, चतुरन्तं नाम चतुरिका, आदिशब्दाद् वेन्दन- कलश - तोरणादिविवाहविस्तर परिग्रहः, तथा यस्त भूषितानां–वस्त्रादिभिरलङ्कृतानां खजनानां समागमः, यच्च रथेन वाऽश्वेन वा आदिशब्दात् शिबिकया वा 'निर्वहणं' वध्वाः सर्व श्वशुरगृहे नयनं तद्दर्शने भुक्तभोगिनीनां स्मृतिकरणमभु20 क्तभोगिनीनां तु कौतुकमुपजायते, ततः प्रतिगमनादयो दोषाः ॥ २३०७ ॥ अथ राजद्वारमाहबलसमुदयेण महया, छत्तसिया वियणि- मंगलपुरोगा । दीसंति रायमादी, तत्थ अतिंता य निंता य ॥ २३०८ ॥ महता बलसमुदयेन 'अतियन्तः' प्रविशन्तः 'निर्यन्तो वा' निर्गच्छन्तः 'राजादयः' राजेश्वर - तलवरप्रभृतयस्तत्र दृश्यन्ते । कथम्भूताः ? “ छत्तसिय" ति प्राकृते पूर्वापरनिपातस्य तत्रत्वात् 25 सितं-श्वेतं छत्रं येषां ते सितच्छत्राः, तथा "वियणि" त्ति वालवीजनिका मङ्गलानि -दर्पण - पताकादीनि एतानि पुरोगाणि - पुरतोगामीनि येषां राजादीनां ते तथा ॥ २३०८॥ द्वारगाथायां “रायमादीसु” ( गा० २३०४ ) त्ति यद् आदिग्रहणं कृतं तल्लब्धमर्थमाहते नक्खि-वालि-मुहवासि जंघिणो दिस्स अट्ठियाऽणट्ठी । हो णे एरिसगा, न य पत्ता एरिसा इतरी ॥ २३०९ ॥ 30 तान् पुरुषान् नैखि-वालि-मुखवासि - जङ्घिनो दृष्ट्वा भुक्तभोगिन्योऽभूवन् “णे” अस्माकमपीदृशाः पतय इति स्मृतिम् ‘इतरास्तु' अभुक्तभोगिन्यो नास्माभिरीदृशाः पूर्वं प्राप्ता इत्येवं कौतुकं Jain Education International १ “चउरंतओ पेढं चउक्कोणं कीरइ, तस्सुवरिं पोतेहिं सोभा कीरह" इति विशेषचूर्णो ॥ २ वञ्जन मो० ले० ॥ ३ नखिप्रभृतिविशेषणविशिष्टान् दृष्ट्वा भा० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy