________________
भाष्यगाथाः २२९९-२३०५] प्रथम उद्देशः ।
६५३ तुष्क-चत्वरेषु तिष्ठन्तीनां षड् गुरवः । “सुन्न" त्ति अपरिगृहीते शून्यगृहे अन्तरापणे वा च्छेदः । उद्याने तिष्टन्तीनां मूलम् । एवं भिक्षुणीविषयमुक्तम् । गणावच्छेदिन्याः षड्लघुकादारब्धं नवमे तिष्ठति । प्रवर्त्तिन्याः पड्गुरुकादारब्धं प्रायश्चित्तं दशमे पर्यवस्यति । एतच्चापत्तिमङ्गीकृत्योक्तम् , अन्यथा सर्वासामपि मूलमेव भवति, परतः संयतीनां प्रायश्चित्तस्यैवाभावात् ॥ २३०२ ॥
सव्वेसु वि चउगुरुगा, भिक्खुणिमाईण वा इमा सोही।
चउगुरुविसेसिया खलु, गुरुगादि व छेदनिट्ठवणा ॥ २३०३ ॥ अथवा 'सर्वेष्वपि' आपणगृहादिषु » स्थानेषु चतुर्गुरुका अविशेषितं प्रायश्चित्तम् । स अयं च प्रकारः प्रागुक्तोऽपि सङ्ग्रहार्थमिह भूयोऽप्युक्त इति न पुनरुक्तता । » यदि वा भिक्षुणीप्रभृतीनामियं शोधिर्द्रष्टव्या, तद्यथा---चतुर्गुरुकास्तपः-कालाभ्यां विशेषिताः । तत्र - भिक्षुण्याश्चतुर्गुरुकमुभयलघु, अभिषेकायास्तदेव तपसा लघु कालेन गुरुकम् , गणावच्छेदिन्याः 10 कालेन लघु तपसा गुरु, प्रवर्त्तिन्यास्तपसा कालेन च गुरुकम् । यदि वा चतुर्गुरुकादारभ्य च्छेदे निष्ठापना कर्तव्या, तद्यथा--भिक्षुण्याः सर्वेप्वपि स्थानेषु चतुर्गुरुकम् , अभिषेकायाः षड्लघुकम् , गणावच्छेदिन्याः षड्गुरुकम् , प्रवर्त्तिन्याश्छेदः ॥ २३०३ ॥ अथात्रैव दोषानुपदर्शयितुं द्वारगाथामाहतरुणे वेसित्थि विवाह रायमादीसु होइ सइकरणं ।
15 इच्छमणिच्छे तरुणा, तेणा उवहिं व ताओ वा ॥ २३०४ ॥ A आपणगृहादिपु स्थितानां साध्वीनां » तरुणान् वेश्यास्त्रीः विवाहं च दृष्ट्वा राजादीनां च दर्शने भुक्तभोगानां स्मृतिकरणं भवति, इतरासां कौतुकम् । तरुणांश्च प्रार्थयमानान् यदीच्छन्ति ततः संयमविराधना, अथ नेच्छन्ति तत उड्डाहादिकं कुर्युः । स्तेनाश्च तत्रोपधिं वा 'ता वा' आर्यिका अपहरेयुरिति द्वारगाथासमासार्थः ॥ २३०४ ॥ अथ विस्तरार्थं प्रतिपदमाह- 20
चउहालंकारविउविए तहिं दिस्स सललिए तरुणे ।
लडहपयंपिय-पहसिय-विलासगइ-णेगविहकिड्डे ॥ २३०५ ॥ चतुर्दा-वस्त्र-पुष्प-गन्धा-ऽऽभरणभेदात् चतुर्विधो योऽलङ्कारस्तेन विकुर्वितान्-अलङ्कतान् तरुणान् 'तत्र' आपणगृहादिषु दृष्ट्वा मोहोदयो भवतीति वाक्यशेषः । कथम्भूतान् ? 'सललितान्' ललितं नाम-हस्त-पादाङ्गविन्यासविशेषः, उक्तञ्च
हस्त-पादाङ्गविन्यासो, भ्रू-नेत्रौष्ठप्रयोजितः ।
सुकुमारो विधानेन, ललितं तत् प्रकीर्तितम् ॥ (नाट्य० अ० २२ श्लो० २२) तेन सहितान् । तथा लडभं–मनोज्ञं प्रजल्पितं-प्रकृष्टवचनं प्रहसितं-हास्यं विलासश्च
स्थाना-ऽऽसन-गमनानां, हस्त-भ्रू-नेत्रकर्मणां चैव ।
उत्पद्यते विशेषो, यः श्लिष्टः स तु विलासः स्यात् ।। (नाट्य० अ० २२ श्लो०१५)30 इत्येवंलक्षणः गतिश्च-सुललितपदन्यासरूपा अनेकविधाश्च-छूता-ऽऽन्दोलनादिकाः क्रीडा येषां १.२.३ २» एतचिह्नमध्यगतः पाठः भा० नास्ति ॥
४ यद्वा भा० ॥ ५० एतन्मध्यगतः पाठः भा० नास्ति ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org