SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 10 ६५० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् ११ प्रामाश्च नगराणि चेति ग्राम-नगरम् , तद् नास्ति ग्राम-नगरं यत्र 'इतराः' पार्श्वस्थादिसंयत्यः 'इतरे वा' पार्श्वस्थादयो न सन्ति, ततः पुनरपि वयं भणामः, यथा-अरण्ये 'उप्यतां' वासः क्रियतां यदि मीलनायामेवंविधा दोषाः ॥ २२९० ॥ सूरिसह दिटुंतो पुरिसपुरे, मुरुडदूतेण होइ कायव्यो । जह तस्स ते असउणा, तह तस्सितरा मुणेयव्या ॥ २२९१ ॥ दृष्टान्तोऽत्र पुरुषपुरे रक्तपटदर्शनाकीर्णे मुरुण्डदूतेन भवति कर्त्तव्यः । यथा 'तस्य मुरुण्डदूतस्य 'ते' रक्तपटा अशकुना न भवन्ति, तथा 'तस्य' साधोः 'इतराः' पार्श्वस्थ्यादयो मुणितव्याः, ता दोषकारिण्यो न भवन्तीत्यर्थः ॥ २२९१ ॥ इदमेव भावयति पाडलि मुरुडदूते, पुरिसपुरे सचिवमेलणाऽऽचासो। भिक्खू असउण तइए, दिणम्मि रन्नो सचिवपुच्छा ॥ २२९२ ॥ पाटलिपुत्रे नगरे मुरुण्डो नाम राजा । तदीयदूतस्य पुरुषपुरे नगरे गमनम् । तत्र सचिवेन सह मीलनम् । तेन च तस्य आवासो दापितः । ततो राजानं द्रष्टुमागच्छतः 'भिक्षवः' रक्तपटा अशकुना भवन्ति इति कृत्वा स दूतो न राजभवनं प्रविशति । ततस्तृतीये दिने राज्ञः सचिवपाधैं पृच्छा-किमिति दूतो नाद्यापि प्रविशति ? ॥ २२९२ ॥ ततश्च निग्गमणं च अमच्चे, सब्भावाऽऽइक्खिए भणइ दूयं । अंतो बहिं च रच्छा, नऽरहिंति इहं पवेसणया ॥ २२९३ ॥ अमात्यस्य राजभवनान्निर्गमनम् । ततो दूतस्यावासे गत्वा सचिवो मिलितः । पृष्टश्च तेन दूतः -किं न प्रविशसि राजभवनम् ? । स प्राह-अहं प्रथमे दिवसे प्रस्थितः परं तच्चनि कान् दृष्ट्वा प्रतिनिवृत्तः 'अपशकुना एते' इति कृत्वा, ततो द्वितीये तृतीयेऽपि दिवसे प्रस्थितः 20 तत्रापि तथैव प्रतिनिवृत्तः । एवं सद्भावे 'आख्याते' कथिते सति दूतममात्यो भणति-एते इह रथ्याया अन्तर्बहिर्वा नापशकुनत्वमर्हन्ति । ततः प्रवेशना दूतस्य राजभवने कृता । एवमसाकमपि पार्श्वस्थादयस्तदीयसयत्यश्च रथ्यादौ दृश्यमाना न दोषकारिण्यो भवन्ति ।। २२९३ ।। अपि च जह चेव अंगारीणं, विवक्खबुद्धी जईसु पुव्वुत्ता। तह चेव य इयरीणं, विवक्खबुद्धी सुविहिएसु ॥ २२९४ ॥ यथैव 'अगारीणाम' अविरतिकानां पूर्वम् “आगंतुगदव्वविभूसियं” (गा० २१७०) इत्यादिना यतिषु विपक्षबुद्धिरुक्ता तथैव 'इतरासां' पार्श्वस्थादिसंयतीनां हस्त-पादधावनादिना विभूषितविग्रहाणां सुविहितेषु स्नानादिविभूषारहितेषु विपक्षबुद्धिर्भवतीति द्रष्टव्यम् ॥२२९४॥ ॥ व ग डा प्र कृ तं स मा प्तम् ॥ 16 25 - १°जवचना मो० ले. ॥ २ °कुना गृह्यन्ते । ततः भा० ॥ ३°म्' पत्रा-ऽऽभरणादि विभूषितानामविर त० डे० कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy