________________
माष्यगाथाः २२८२-९०] प्रथम उद्देशः । उद्धरितभक्त-पानादिपरिष्ठापनिका तत्प्रभृतिषु कार्येषु विनिर्गतानां साधु-साध्वीनां परस्परमिलितानामेकद्वारे क्षेत्रे ~ त एव' पूर्वोक्ता दोषा भवेयुः, अतस्तत्रापि न वर्तते स्थातुम् ॥ २२८६ ॥ उपसंहरन्नाह
एते तिन्नि वि भंगा, पढमे सुत्तम्मि जे समक्खाया।
जो पुण चरिमो भंगो, सो बिइए होइ सुत्तम्मि ॥ २२८७ ॥ एका वगडा एकं द्वारम् १ एका वगडा अनेकानि द्वाराणि २ अनेका वगडा एकं द्वारम् ३ एते त्रयोऽपि भङ्गा ये समाख्यातास्ते प्रथमे वगडासूत्रे प्रत्येतव्याः । तच्च प्रागेव व्याख्यातम् । यः पुनः 'चरमो भङ्गः' अनेका वगडा अनेकानि द्वाराणीति लक्षणः स द्वितीये वगडासूत्रे द्रष्टव्यः ॥ २२८७ ॥ तच्चेदम्
से गामंसिवाजाव रायहाणिसि वा अभिनिव्वगडाए 10 अभिनिदुवाराए अभिनिक्खमण-प्पवेसाए कप्पड़
निग्गंथाण य निग्गंथीण य एगयओ वत्थए २-११॥ अथ ग्रामे वा यावद् राजधान्यां वा 'अभिनिवगडाके' निपातानामनेकार्थत्वाद अभि इतिअनेका नि इति-नियता वगडाः-परिक्षेपाः [यत्र, यद्वा ] 4 'अभि-निशब्दौ पृथगर्थद्योतको द्रष्टव्यौ, ततश्च पृथग्-अनेका वगडा - यत्र तदभिनिवगडाकं तत्र । एवमभिनिद्वारके-15 ऽभिनिष्क्रमण-प्रवेशके च कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां च एकतो वस्तुमिति सूत्रार्थः ।। । अथ भाष्यम्
एयद्दोसविमुक्के, विच्छिन्न वियारथंडिलविसुद्धे । ___ अभिनिव्वगड-दुवारे, वसंति जयणाएँ गीयत्था ॥ २२८८ ॥ एतैः-प्रथमसूत्रोक्तैर्दोषैर्विमुक्ते विस्तीर्णे महाक्षेत्रे 'विचार-स्थण्डिलविशुद्ध' यत्र भिक्षाचर्या 20 संज्ञाभूमिश्च परस्परमपश्यतां भवति तत्रैवंविधेऽभिनिवगडाकेऽभिनिद्वारे च संयतीक्षेत्रे यतनया गीतार्थी वसन्ति ॥ २२८८ ॥ कथम् ? इत्याह-~
पिहगोअर-उच्चारा, जे अन्भासे वि होंति उ निओया ।
वीसुं वीसु वुत्तो, वासो तत्थोभयस्सावि ॥ २२८९ ॥ ये 'अभ्यासे' मूलक्षेत्रप्रत्यासत्तौ 'नियोगाः' ग्रामा भवन्ति तेऽपि साधु-साध्वीनां पृथग्गोचर-25 चर्याकाः पृथगुच्चारभूमिकाश्च परस्परं भवन्ति, आस्तां मूलग्राम इत्यपिशब्दार्थः । 'उभयस्यापि च' संयतानां संयतीनां च तत्र 'विष्वग् विष्वग्' पृथक्पृथगुपाश्रये वासः प्रोक्त इति ॥ २२८९ ॥ - अत्र नोदकः प्रेरयन्नाह
तं नत्थि गाम-नगरं, जत्थियरीओ न संति इयरे वा ।
पुणरवि भणामु रन्ने, वस्सउ जइ मेलणे दोसा ॥ २२९०॥ ११ एतन्मध्यगतः पाठः भा० नास्ति ॥ २°द् 'अभिनि'शब्दः पृथगर्थे, ततश्च भा० ॥ ३सएतचिह्नगतः पाठः मो० ले. नास्ति ॥४ - एतन्मध्यगतः पाठः भा० नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org