________________
६४८
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् ११ - गृहीतश्च स वराको राजपुरुषैः, बद्धश्च 'अवकोटकः' अधोनीतकृकाटिकः पश्चान्मुखीकृतबाहुयुगलः, “दवदवस्स" ति शीघ्रं सम्प्रापितश्च राजकुलमयम् , तत्र च प्रस्तुतकार्यस्योत्पत्तिः कारणिकैः पृष्टा, तेन चागारेण यथावस्थितं सर्वमपि तत्पुरतो विज्ञप्तम् ।। २२८१॥ ततश्च
जाणंता वि य इत्थि, दोसवई तीऍ नाइवग्गस्स ।
पञ्चयहेउं सचिवा, करेंति आसेण दिद्वंतं ॥ २२८२ ॥ 'नहि महत्यपि वृष्ट्याधुपद्रवे स्त्रिया निरावरणत्वं शिष्टानामनुमतम्' इति कृत्वा स्त्रियं दोषवती जानन्तोऽपि तस्याः सम्बन्धी यो ज्ञातिवर्गः-खजनसमुदायस्तस्य प्रत्ययहेतोः 'सचिवाः' कारणिका अश्वेन दृष्टान्तं कुर्वन्ति ॥ २२८२ ॥ तमेवाह
. वम्मिय कवइय वलवा, अंगणमज्झे तहेव आसो य ।
__ वलवाएँ अवंगुणणं, कजस्स य छेदणं भणियं ॥ २२८३ ॥ वर्म-लघुस्तनुत्राणविशेषः, तदस्याः सञ्जातमिति वर्मिता, एवं कवचिताऽपि, नवरं कवचंमहाँस्तनुत्राणविशेषः, एवंविधा यथा काचिद् वडवा कस्यचिद् नृपत्यादेरङ्गणमध्ये तिष्ठति, अश्वश्च तथैव, ततस्तां दृष्ट्वा प्रधावितोऽपि वर्मित-कवचितां तां न प्रतिसेवितुं शक्नोति । यदा तु तस्या वडवाया अपावरणं-वर्मादेरपनयनं क्रियते तदा सुखेनैव प्रतिसेवितुमीष्टे । एवमियमपि 15 यद्यपावृता नाभविष्यत् ततो नासौ प्रत्यसेविष्यत इति । अत इयमेवापराधिनीति तैः कारणिकैः 'कार्यस्य' व्यवहारस्य 'छेदनं' परिच्छेदकारि वचो भणितमिति ॥ २२८३ ॥
एवं खु लोइयाणं, महिला अवराहि न पुण सो पुरिसो।
__ इह पुण दोण्ह वि दोसो, सविसेसो संजए होइ ॥ २२८४ ॥ 'एवम्' अमुना प्रकारेण 'खुः' अवधारणे लौकिकानां महिला अपराधिनी संवृत्ता न पुन20 रसौ पुरुषः । 'इह पुनः' अस्माकं लोकोत्तरे व्यवस्थितानां 'द्वयोरपि' संयती-संयतयोर्दोषः, अपि च 'सविशेषः समधिको दोषः संयते भवति ॥ २२८४ ॥ कुतः? इति चेद् उच्यते
पुरिसुत्तरिओ धम्मो, पुरिसे य धिई ससत्तया चेव ।
पेलव परज्झ इत्थी, फुफुग-पेसीऍ दिटुंतो॥ २२८५ ॥ 'पुरुषोत्तरः' पुरुषप्रधानो यतः पारमेश्वरो धर्मः, पुरुषे च 'धृतिः' मानसखास्थ्यलक्षणा 'स25 सत्त्वता च' सत्त्वसम्पन्नता भवति, अतस्तस्य प्रतिसेवमानस्य सविशेषो दोषः । स्त्री तु पेलवा' निःसत्त्वा "परज्झ' त्ति परवशा च । अत्र च फम्फुकेन पेश्या च दृष्टान्तः– यथा फुस्फुकःकरीषाग्निश्चालितः सनुद्दीप्यते एवं स्त्रीवेदोऽपि, यथा च पेशी सर्वस्याप्यभिलषणीया एवमियमपि । अतो न तस्याः समधिको दोष इति ॥ २२८५ ॥ आह यदि संयतीनामन्तस्तृती. यभङ्गे विचारभूमिर्भवेत् ततः किं न वर्त्तते स्थातुम् ? उच्यते
जइ वि य होज वियारो, अंतो अजाण तइयभंगम्मि ।
तत्थ वि विकिंचणादीविनिग्गयाणं तु ते दोसा ॥ २२८६ ॥ यद्यप्यार्याणामन्तः 'तृतीयभङ्गे' आपातासंलोकलक्षणे विचारो भवेत् तथापि विवेचना१°फुम-पे° ता० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org