SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 10 भाष्यगाथा: २२७५-८१] प्रथम उद्देशः । ६४७ दूरतो वर्जयेत् । यच्च गृहं बहुप्रातिवेशिकजनमीदृशे प्रतिश्रयेऽवस्थानं 'क्षमतरम्' अतिशयेन युक्तं भवति, विजने तु विश्वस्ततया बहवो दोपा भवेयुरिति ॥ २२७७ ॥ गतो द्वितीयभङ्गः । अथ तृतीयभङ्गमाह पउमसर वियरगो वा, वाघातो तम्मि अभिनिवगडाए । तम्मि वि सो चेव गमो, नवरं पुण देउले मेलो ।। २२७८ ॥ तृतीयभको नाम अनेकवगडाकमेकनिष्क्रमणप्रवेशं च ग्रामादि, तत्र च 'अभिनिवगडाके' अनेकवगडे एकद्वारे च क्षेत्रे पद्मसरो वा 'विदरको वा' गर्ता 'व्याघातः' व्याघातकारणं भवेद् येनानेके निष्क्रमण-प्रवेशा न भवन्ति तस्मिन्नपि स एव 'गमः' प्रकारः सर्वोऽपि ज्ञातव्यः । 'नवरं' केवलं पुनर्देवकुले 'मीलंकः' दृश्यादिभिः कारणैः साधु-साध्वीनां सङ्गमो भवेत् ॥२२७८॥ कथम् ? इत्यत आह अंतो वियार असई, अजाण हविज तइयभंगम्मि। संकिट्ठगवीयारे, व होज दोसा इमं नायं ॥ २२७९ ॥ अनेकवगमके प्रकनिष्क्रमण-प्रवेशे च ग्रामादौ स्थितेषु साधु-साध्वीजनेषु आर्यिकाणामन्तः 'तृतीयभङ्गे' आपातासंलोकाख्ये विचारभूमेरसत्ता भवेत् ततो बहिर्निर्गच्छन्तीनां संक्लिष्टविचारभूमेर्दोषा भवेयुः । संक्लिष्टविचारभूमी नाम एकद्वारतया अन्या संज्ञाभूमिर्न विद्यते. अतः 15 संयता अपि तत्रैवायान्ति, आसन्ने वा परस्परं संज्ञाभूमी, स ततश्च निर्गमने प्रवेशे वा देवकुले मेलको भवेत् । - इदं चात्र 'ज्ञातं' दृष्टान्त उच्यते ॥ २२७९ ॥ वासस्स य आगमणं, महिला कुड णंतगे व रत्तट्ठी । देउलकोणे व तहासंपत्ती मेलणं होजा ॥ २२८० ॥ कस्याश्चिद् महेलायाः कुसुम्भरक्तवस्त्रयुगलनिवसनायाः प्रथमप्रावृषि घटं गृहीत्वा जलाहरणार्थ 20 निर्गतायाः 'वर्षस्य' वृष्टेरागमनम् । ततोऽसौ महेला 'रक्तार्थिनी' रञ्जनं रक्तं कुसुम्भराग इत्यर्थः तदर्थिनी 'मा वर्षोंदकेन पतता कुसुम्भरागो विलीयताम्' इति कृत्वा 'कुटे' घटे ‘णंतके' वस्त्रे द्वे अपि प्रक्षिप्य खयमपावृतीभूय क्वापि देवकुले प्रविष्टा । तस्य च कोणके यावदसौ प्रविशति तावत् तत्र कश्चिदगारः पूर्वप्रविष्ट आसीत् तेन सा अपावृता दृष्टा, जातश्च तस्य मोहोदयः, ततस्तेन सा युक्ता, दृष्टं च तदन्यैः पुरुषैः । एवं तथासम्पत्त्या तथाविधवर्षपतनादिसमायोगेनै-25 कस्या एव विचारभूमेः प्रतिनिवृत्तयोः संयती-संयतयोरेकत्र देवकुलादौ वर्षावस्त्राणि परित्यक्तवतोर्मीलनं भवेदिति ॥ २२८० ॥ अथ तस्यागारस्य किं संवृत्तम् ? इत्याह गहिओ असो वराओ, बद्धो अवओडओ दवदवस्स। संपाविओं रायकुलं, उप्पत्ती चेव कज्जस्स ॥ २२८१॥ १°सरो विरगो वा ता०॥ २ भवेत, तेन च व्याघातेनानेके भा० ॥ ३ मो० ले० विनाऽन्यत्र-लको भवति ॥ २२७८ ॥ कथ° त• डे. का० । °लको भवति । एतदुत्तरत्र भावयिष्यते ॥ २२७८ ॥ अंतो भा० ।। ४°धुषु आ° मो० ले० विना ॥५। एतन्मध्यगतः पाठः भा० नास्ति ॥ ६ सा भुक्ता भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy