________________
६४५
भाष्यगाथाः २२६७-७४] प्रथम उद्देशः ।
एकस्मिन्नवधावति मूलम् , द्वयोरनवस्थाप्यम् , त्रिष्ववधावमानेषु पाराञ्चिकमाचार्यः प्राप्नोति, कस्मात् तादृशे क्षेत्रे स्थितः ? इति कृत्वा । द्वितीयपदे एतेष्वपि स्थानेषु तिष्ठेत् ॥ २२७१ ॥ कथम् ? इत्याह--- ___ अद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण पडिलोमं ।
गीयत्था जयणाए, वसंति तो अभिदुवाराए ॥ २२७२ ॥ अध्वनो निर्गताः आदिशब्दादशिवादिषु वर्तमानाः सहसैवैकवगडाकमैनेकद्वारं संयतीक्षेत्रं प्राप्ताः । ततस्तत्र 'त्रिकृत्वः' त्रीन् वारान् निरुपहतां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति ततः 'प्रतिलोमं' प्रतीपक्रमेण गीतार्था यतनया 'अभिद्वारे' अनेकद्वारे संयतीक्षेत्रे वसन्ति । कः पुनः प्रतीपक्रमः ? इति चेद् उच्यते-यानि पूर्वमेकसाहिकादीनि धर्मकथापर्यन्तानि द्वाराण्युक्तानि तेषु प्रथमतो यस्यां धर्मकथाशब्दः साध्वीभिः श्रूयते तस्यां वसतौ वस्तव्यम् ॥ २२७२ ॥ 10 तंत्र चेयं यतना
सिंगारवज बोले, अह एगो विजपाढऽणुच्चं च ।। __ सड्ढादीनिबंधे, कहिए वि न ते परिकहिंति ॥ २२७३ ॥ धर्मकथां परिवर्तयन्तः शृङ्गाररसर्ज 'बोलेन च' वृन्दशब्देन परिवर्त्तयन्ति यथैकस्य कस्यापि व्यक्तः स्वरो नोपलक्ष्यते । अथान्येन सह गुणयतस्तस्य न सञ्चरति तत एकोऽपि वैद्यपाठेन 15 गुणयति, खरवर्जितमिति भावः, तदपि 'अनुच्चं' नोचैस्तरेण शब्देन । अथ 'सुखरोऽयम्' इति ज्ञात्वा श्राद्धा आदिशब्दाद् यथाभद्रकादयो वा निर्बन्धं कुर्युः ततो यथावरेण धर्म कथयति । ततः कथितेऽपि मधुरखरेण धर्मे प्रभाते संयतीनां पृच्छन्तीनां न 'ते' साधवः परिकथयन्ति, यथा-अमुँकेनेत्थं धर्मः कथित इति । ईदृश्या वसतेरलामे उच्चे वा नीचे वा स्थातव्यम् ॥ २२७३ ॥ तत्रेयं यतना
कडओ व चिलिमिली वा, तत्तो थेरा य उच्च-नीए वा ।
पासे ततो न उभयं, मत्तग जयणाऽऽउल ससदा ॥ २२७४ ॥ विशन्तो निर्गच्छन्तो वा यस्मिन् पार्श्वे परस्परं पश्यन्ति ततः कटकः वंशादिमयो घनो १ त्रिषु पारा मो० ले० विना ॥ २°ध्वा-मार्गः ततो नि भा० ॥ ३°मभिदा भा० ॥ ४ तत्र तिष्ठतामियं यतना भा० ॥
५°वर्ज परिवर्तयन्ति । तदपि 'बोलेन' वृन्देन, न एकैकः परावर्त्तयतीत्यर्थः । अथैक एव कारणविशेषादसौ भवेत् ततो वैद्यपाठेन परिवर्त्तयति, स्वरवर्जित° भा० ॥ ६ ततो धर्मकथामपि मधुरया गिरा कुर्वीत, परं कथिते सति धर्मे भा० ॥
७°मुकेन धर्मकथां कुर्वता इत्थं मधुरखरेण परिवर्तितमिति ॥ २२७३ ॥ ईदृश्या वसतेरलामे यत्रोच्चे वा नीचे वा स्थातव्यं भवति तत्रेयं यतना भा०॥ ८ नो उ° भा० ता. विना ॥ ९ कटको वंशादिमयस्ततो धनो दीयते यथा प्रविशन्तो निर्गच्छन्तो वा परस्परं न पश्यन्ति । अथ कटको भा० । “कडतो ततो घणो दिज्जति जधा अतित-णिता परोप्पर ण पेचंति" इति चूर्णी विशेषचूर्णौ च ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org