________________
भाष्यगाथार २२५६-६६] प्रथम उद्देशः।
६४३ भवतीत्यर्थः ९ । दशमे वेगे प्राणैर्मुच्यते मनुष्यः १० । एतेषां दशानामपि वेगानां प्रायश्चित्तं यथाऽऽनुपू. 'वक्ष्ये' अभिधास्ये ॥ २२५९ ॥ २२६० ॥ २२६१ ॥ तदेवाह
मासो लहुओ गुरुओ, चउरो मासा हवंति लहु-गुरुगा।
छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ २२६२॥ प्रथमे वेगे लघुको मासः । द्वितीये गुरुको मासः । तृतीये चत्वारो मासा लघुकाः । । चतुर्थे चत्वारो मासा गुरुकाः । पञ्चमे षण्मासा लघवः । षष्ठे षण्मासा गुरवः । सप्तमे च्छेदः । अष्टमे मूलम् । नवमेऽनवस्थाप्यम् । दशमे पाराञ्चिकम् ॥ २२६२ ॥
एकम्मि दोसु तीसु व, ओहावितेसु तत्थ आयरिओ।
मूलं अणवठ्ठप्पो, पावइ पारंचियं ठाणं ॥ २२६३ ॥ अथ मोहोदयेनैकः 'अवधावति' उत्प्रव्रजति तत आचार्यो मूलं प्राप्नोति, द्वयोरवधावतोरन-10 वस्थाप्यो भवति, त्रिष्ववधावमानेषु पाराञ्चिकं स्थानं प्राप्नोति ॥ २२६३ ॥ गतमुच्चनीचद्वारम् । अथ धर्मकथाद्वारमाह
धम्मकहासुणणाए, अणुरागो भिक्खसंपयाणे य ।
संगारे पडिसुणणा, मोक्ख रहे चेव खंडीए ॥ २२६४ ॥ धर्मकथायाः श्रवणेन संयत्या अनुरागः सञ्जायते। ततः स्निग्ध-मधुरभैक्षस्य सम्प्रदानं संयताय 15. कारयति । ततः 'सङ्गारस्य' सङ्केतस्य प्रतिश्रवणं करोति । कः पुनः सङ्केतः ? इत्याह"मोक्ख रहे चेव" ति अमुष्मिन् दिवसे रेथो हिण्डिष्यते तत्रास्माकं रक्ष्यमाणानां मोक्षो भविष्यति । “खंडीए" त्ति खण्डी-छिण्डिका तस्या वा द्वारमुद्घाटं रात्रौ भविता, यद्वा दीर्घस्यालाक्षणिकत्वात् खण्डितं-श्रामण्यस्य खण्डना तयोः प्रतिसेवमानयोर्जायते । एष नियुक्तिगाथासमासार्थः ।। २२६४ ॥ अथैनामेव विवरीषुराह
असुमेण अहाभावेण वा वि रत्तिं निसंतपडिसंते ।
वत्तेइ किन्नरो इव, कोई पुच्छा पभायम्मि ॥ २२६५ ॥ कोऽपि साधुरशुभेन वा भावेन यथामावेन वा रात्रौ 'निशान्तप्रतिश्रान्ते' अत्यन्तभ्रमणादुपरते यद्धा निशान्तेपु-स्वेषु स्वेषु गृहेषु प्रतिश्रान्ते विश्रान्ते जने किन्नर इव मधुरया गिरा धर्मकथां काञ्चित् परिवर्तयति तद् आकर्ण्य संयत्यः प्रभाते पृच्छन्ति ॥ २२६५ ॥ यथा- 25
कतरो सो जेण निर्सि, कन्नाणे पूरिया व अमयस्स ।
सो मि अहं अजाओ!, आसि पुरा सुस्सरो किं वा ॥ २२६६ ॥ १°वणमनुदिनं करो° भा० ॥ २ 'रहः' एकान्तं भविष्यति तत्रास्माकं रक्ष्यमाणानां मोक्षणं भविष्यति । ततश्च श्रामण्यस्य 'खण्डितं' खण्डनं जायते । गाथायां दीर्घत्वं प्राकृ. तत्वात् । एष संग्रहगाथासमासार्थः ॥२२६४॥ भा० ॥ ३°प सङ्ग्रहगा भा० त० डे० का । "इदाणि धम्मकहि त्ति-तत्र पोरातना गाहा-धम्मकहा सुणणाए० गाहा।" इति विशेषचौँ ।
४ प्रतिशान्ते जने किन्नर इव धर्मकथां कुर्वन् मधुरया गिरा परिवर्त्तयति तद आकर्ण्य संयत्या प्रभाते पृच्छा कृता ॥ २२६५ ॥ भा० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org