SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २२४८-५५ ] प्रथम उद्देशः । अहवण उच्चावे, कर-विटय - पीढगादिसुं काउं । ताई वा वि मोतुं, रहियं विट्ठो पुण निसिजं ॥ २२५२ ॥ अथवा यदि संयता नीचैः प्रदेशे स्थिताः संयत्यस्तूचे ततः शिरः शरीरं वा 'उच्चयित्वा ' उच्चैःकृत्य यन्निरीक्षते, यद्वा करे - हस्ते विण्टिकायां पीठकादिषु वा शीर्षं कृत्वा यन्निरीक्षते तद् रहितम् ; अथवा यतयः उच्चे स्थिता यतिन्यस्तु नीचे ततः करादिषु पूर्वन्यस्ते शिरसि अत्यु- 5 चत्वादनवलोकमानो यत् 'तानि' कर - विण्टिकादीनि ' प्रमुच्य' उत्सार्य पश्यति तद् रहितम् । एतत् त्वग्वर्त्तनं कुर्वतो रहितमुक्तम् । “बिट्टो पुण निसिज्जं" ति - उपविष्टः पुनर्निषद्यां मुक्त्वा यत् पश्यति तद् रहितम् । द्विपरीतं त्रिष्वपि स्थानेष्वरहितं द्रष्टव्यम् ॥२२५२॥ दिसंबंधो वा, दोह वि रहियं तु अन्नतरगत्ते । अप्पो दोसो रहिए, गुरुकतरो उभयसंबंधे ।। २२५३ ॥ अथवा 'द्वयोरपि' संयत- संयत्योयों दृष्टेः दृष्टेश्च सम्बन्धस्तदरहितम् । रहितं पुनरन्यतरगात्रे निरीक्षणम् । अत्र चाल्पतरो दोषः 'रहिते' एकतरदृष्टिसम्बन्धे, अरहिते तूभयदृष्टि सम्बन्धे गुरुतरो दोषः || २२५३ ।। अत्र प्रायश्चित्तमाह ६४१ दोहिं वि अरहिय रहिए, एक्केक सकामए पकामे य । गुरुगा दोहि विलहुगा, लहु गुरुग तवेण दोहिं पि ।। २२५४ ॥ द्वाभ्यार्मेपि नयनाभ्यां निरीक्षणमित्यादिकं यदनेकविधमरहितं भणितं ( गा० २२४९ आदि) तत्र सकामे चत्वारो गुरवः 'द्वाभ्यामपि' तपः - कालाभ्यां लघवः, तत्रैव प्रकामे चत्वारो गुरवः तपोलघुकाः । रहिते तु सकामे चतुर्गुरुकाः तपसा गुरवः, तत्रैव प्रकामे चतुर्गुरवो द्वाभ्यामपि गुरवः । यत्तु दृष्टिसम्बन्धरूपमरहितम् अन्यतरगात्रनिरीक्षणरूपं तु रहितं व्याख्यातं तत्रैवं प्रायश्चित्तयोजना–रहिते सकामे चतुर्गुरु उभयलघुकम्, प्रकामे चतुर्गुरु कालगुरुकम्, 20 अरहिते सकामे चतुर्गुरु तपोगुरुकम्, अरहिते प्रकामे चतुर्गुरु उभयगुरुकम् || २२५४ ॥ एकेका पयाओ, साहीमाईसु ठायमाणाणं । निकारणद्वियाणं, सव्वत्थ वि अविहिए दोसा ।। २२५५ ॥ १-२ एतदन्तर्गतः पाठः भा० नास्ति ॥ ३ एतस्या गाथायाः प्राग् विशेषचूर्णो - "दोहि वि अरहिय रहिए." इति २२५४ गाथासमाना गाथा अधिका वर्त्तते । अत्र विशेषचूर्णिरेवम् — “ दोहि वि अरहिय० गाहा । दोहिं पादेहिं भूमीए ठिएहिं सकामं णिरिक्खइ : दोहि वि लहुयं, अह पकामं निरिक्खइ :: कालगुरू तवलहु । दोहिं पाएहिं भूमीरहिओ अग्गपादेहिं टाइऊण वेंटियादी वा विलग्गिऊण सकामं णिरिक्खइ :: तवगुरू काललडु, पकामं णिरिक्खs :: दोहि वि गुरुं ।” इति ॥ ४ मपि यदरहितं तत्र भा० ॥ ५णे स्थितानां कार° भा० ॥ For Private & Personal Use Only 10 अरहित-रहित-सकाम-प्रकामनिरीक्षणानामेकैकस्मात् पदात् साहिकायाम् आदिशब्दात् सप्रतिमुखद्वारेषु पुरतो वा मार्गतो वा उच्च वा नीचे वा सर्वत्रापि निष्कारणे" तिष्ठतां कारणे वा 25 'अविधिना' अयतनया स्थितानाममी दोषा भवेयुः ।। २२५५ ॥ Jain Education International 15 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy