________________
६४०
एकेक ठाण बुड्डी, चउगुरुअंतं च आयरिए || २२४८ ॥
निविष्टो नाम-निषण्णस्तस्यापि प्रेक्षमाणस्य एष एव निरन्तर - सान्तरादिकोऽभिलापो वक्तव्यः, नवरं प्रायश्चित्तं स एव भिन्नमासो गुरुकश्चतुर्ष्वपि स्थानेषु तपः- कालविशेषितस्तथैव कार्यः । स्थितो नाम - ऊर्द्धस्थस्तस्याप्येवमेवाभिलापः, नवरं प्रायश्चित्तं लघुमासस्तपः - कालविशेषितः । B एवं भिक्षोः प्रायश्चित्तमुक्तम्, वृषभोपाध्यायाचार्याणां यथाक्रममेकैकस्थानवृद्धिः कर्त्तव्या याव - दाचार्यस्य चतुर्गुरुकम् । तद्यथा - वृषभस्य गुरुभिन्नमासादारब्धं गुरुमासे, उपाध्यायस्य मासलघुकादारब्धं चतुर्लघुके, आचार्यस्य गुरुमासिकादारब्धं चतुर्गुरुके निष्ठामुपयातीति ॥ २२४८ ॥ एष प्रथम आदेशः । अथ द्वितीय माह
10
सनिर्युक्ति-लघुभाप्य वृत्तिके बृहत्ल्पसूत्रे [ वगडाप्रकृते सूत्रम् १०
दोहि विरहि सकामं, पकाम दोहिं पि पेक्खई जो उ । चउरो य अणुग्घाया, दोहि वि चरिमस्स दोहि गुरु ॥ २२४९ ॥ “दोहि वि” त्ति द्वाभ्यार्मंपि नयनाभ्यां यन्निरीक्षते तदरहितम्, रहितं तु यदेकेन लोचनेन निरीक्षते । एतदुभयमपि प्रत्येकं द्विधा - सकामं प्रकामं च । तत्र सकाममेकशः प्रकाममनेकशः । “दोहिं पि पेक्खई जो उ" त्ति द्वाभ्यामपि रहिता - रहिताभ्यां सकाम - प्रकामाभ्यां वा यः प्रेक्षते तस्य चत्वारो मासा अनुद्धाताः 'द्वाभ्यामपि ' तपः - कालाभ्यां विशेषिताः 15 प्रायश्चित्तम् । 'चरमस्य' चतुर्थभङ्गवर्तिनः 'द्वाभ्यामपि ' तपः- कालाभ्यां गुरुकाः कर्त्तव्याः । एवं निर्युक्तिगाथासमासार्थः || २२४९ || अथास्या एव भाप्यकृद् व्याख्यानमाह
―――――
पायठिओं दोहिँ नयणेहि पिच्छई रहिय मोतु एक्केणं ।
तं पुण सई सकामं, निरंतरं होइ उ पकामं ॥ २२५० ॥
पादाभ्यां भुवि स्थितो द्वाभ्यां नयनाभ्यां यत् प्रेक्षते तदरहितम्, यत् पुनरेकेन नयनेन 20 'मुक्तत्वा' परित्यज्य निरीक्षते तद् रहितम् । 'तत् पुनः' उभयमपि 'सकृद्' एकवारं निरीक्षणं सकामम्, 'निरन्तरम्' अनेकशस्तदेव प्रकामं भवति ॥ २२५० ॥
अवण समतलपादो, दोहिं वि रहिअं तु अग्गपाएहिं । डालादी विरहं, एकेक सकामग पकामं ।। २२५१ ।।
"अहवण" त्ति अथवा समतलपादो यद् निरीक्षते तद् अरहितम्, यत् पुनरग्रपादाभ्यां 25 द्वाभ्यामपि स्थितो निरीक्षते तद् रहितम् । अथवा यदिट्टाल - लेष्टुकाथारूढः पश्यति तद् अरहितम्, तदपरं रहितम् । एतदरहितं रहितं च एकैकं सकामं प्रकामं च मन्तव्यम् || २२५१ ॥
Jain Education International
- १ स्थितस्तस्याप्येष एवाभि मो० ले० विना ॥ २° तं मासलघु तपः- कालविशेषितम् भां० ॥ ३ अभिषेकोपा भा० ॥ ४ अभिषेकस्य गुरु भा० ॥ ५ °य उच्यते भा० ॥
६ मपि पद्भ्यां स्थितो नयनद्वयेन यन्नि' भा० । “दोहि विति पादेहिं ठितो गयणदुगेणं निरिक्खति” इति चूर्णौ । “दोहि वित्ति पद्भ्यां स्थितः नयनद्वयेनापि निरीक्षते” इति विशेषचूर्णौ ॥
७° पुरातनगा भा० त०डे० कां० । “दोहि वि० गाधा पुरातना" इति चूर्णो विशेषचूर्णौ च ॥ ८ " अहवण समतल ० 'गाथा २२५१ "अहवण उच्चावेउं " गाथा २२५२ इति गाथाद्वयं विशेषचू ण पूर्वापरक्रमविपर्ययेण व्याख्याताऽस्ति ॥
"
For Private & Personal Use Only
www.jainelibrary.org