________________
भाप्यगाथाः २२३०-३८] प्रथम उद्देशः ।
६३७ वइअंतरियाणं खलु, दोण्ह वि वग्गाण गरहिओ वासो।
आलावे संलावे, चरित्तसंभेइणी विकहा ॥ २२३५॥ एकस्यां साहिकायां वृत्या अन्तरितयोः संयत-संयतीरूपयोर्द्वयोरपि वर्गयोरेकत्र वासः 'गर्हितः' निन्दितः, तीर्थकरैः प्रतिक्रुष्ट इत्यर्थः' । यतस्तत्र संयत-संयत्योः कायिक्यादिव्युत्सर्जनार्थ निर्गतयोः परस्परम् 'आलापे' सकृजल्पे 'संलापे' पुनः पुनः सम्भाषणे सञ्जाते सति चारित्रसम्भे-5 दिनी विकथा वक्ष्यमाणरीत्या भवेत् ॥ २२३५ ॥ अथैकसाहिकायामेव दोषानाह
उभयेगयरट्ठाए, व निग्गया दट्ट एक्कमेकं तु ।।
संका निरोहमादी, पबंध आतोभया वाऽऽसु ॥ २२३६॥ उभयं-संज्ञा-कायिकीरूपं तस्य एकतरस्य वा व्युत्सर्जनार्थं निर्गतयोः संयती-संयतयोरेकैकं दृष्ट्वा शङ्का भवति । तथाहि-संयतः कायिक्यादिव्युत्सर्जनाथ निर्गतः संयतीं दृष्ट्वा प्रतिनिवृत्तः, 10 पुनरपि कायिकी-संज्ञाभ्यामुढाध्यमानो निर्गतः, ततः संयती तं दृष्ट्वा शङ्कां करोति-नूनमेष मां कामयते; एवं संयतस्यापि संयती प्रविशन्ती निर्गच्छन्ती च दृष्ट्वा शङ्का भवति; अथवा लोकस्य शङ्का भवति, यथा--एष एषा वा यदेवं पौनःपुन्येन प्रविशति निर्गच्छति च तनूनमेनामेनं वा अभिलपतीति । निरोधो वा कायिकी-संज्ञयोर्भवेत् । आदिशव्दादनागाढपरितापनादिपरिग्रहः । कथाप्रबन्धो वा वक्ष्यमाणलक्षणो भवेत् । ततश्चात्मसमुत्थेन उभयसमुत्थेन वा वाशब्दात् 15 परसमुत्थेन वा दोषेण 'आशु' क्षिप्रं संयमविराधना भवेत् ॥ २२३६ ॥ कुमारप्रव्रजितस्य वा इत्थं कौतुकमुपजायते
पैस्सामि ताव छिदं, वन पमाणं व ताव से दच्छं ।
इति छिड्डेहि कुमारा, झायंती कोउहल्लेणं ॥ २२३७॥ पश्यामि तावत् किमपि च्छिद्रम् येन 'वर्ण' गौरत्वादिकं 'प्रमाणं वा' शरीरोच्छ्यरूपं "से" 20 तस्याः-विवक्षितसंयत्याः सत्कं तावदहं द्रक्ष्यामि इति कृत्वा च्छिद्रैः 'कुमाराः' अभुक्तभोगिनः कुतूहलेन 'ध्यायन्ति' अवलोकन्ते, ततस्तेषां प्रतिगमनादयो दोषाः ॥ २२३७ ।। कथाप्रबन्धं व्याख्यानयति
दुबलपुच्छेगयरे, खमणं किं तं ति मोहभेसजं ।
तह वि य वारियवामो, बलियतरं बाहए मोहो ॥ २२३८॥ 25 'एकतरः' संयतः संयती वा दुर्वलो भवेत् । तत्र संयतं संयती पृच्छति-किमेवं दुर्बलोऽसि ? । स ब्रूते-क्षपणं करोमि । तत्र संयती प्राह—'किं' किमर्थं 'तत्' क्षपणं ज्येष्ठायेण क्रियते । संयतः प्राह-'मोहभैषज्यं' मोहचिकित्सनार्थमौषधमिदमासेव्यते तथाप्यसौ
१र्थः । कुतः? इत्याह-तत्र संयतस्य कायिक्यादिव्युत्सर्जनार्थ निर्गतस्य संयत्या सह 'आलापे' सकृजल्परूपे 'संलापे' पुनः पुनः सम्भाषणलक्षणे चारित्रसम्भेदिनी विकथा भवेत् । एतदुत्तरत्र भावयिष्यते ॥ २२३५ ॥ अथैकसाहिकाया दोषानुपदर्शयति भा० ॥ २°वति । कथम् ? इति चेद् उच्यते-सं° भा० ॥ ३ एतन्मध्यगतः पाठः भा० मो० ले० नास्ति ॥ ४ पेच्छामि ताव ता० चूर्णौ च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org