________________
६३४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् १० ___ 'खेन' स्वकीयेनानुमानेन 'परम्' अन्यम् आत्मव्यतिरिक्तम् 'अयं' प्रत्यक्षोपलभ्यमानो जनो दोषेषु गुणेषु च स्थापयति, अविद्यमानानामपि तेषां तत्राध्यारोपं करोतीति भावः । एतदेव व्यक्तीकरोति–'पापस्य' पापकर्मकारिणो जनस्य लोकः सर्वोऽपि पापः प्रतिभाति, कल्याणकारिणः पुनः सर्वोऽपि साधुकारी ॥ २२२० ॥ ततश्च
नूणं न तं वट्टइ जं पुरा भे, इमम्मि खेत्ते जइभावियम्मि ।
अवेयवच्चाण जतो करेहा, अम्हाववायं अइपंडियाओ ।। २२२१ ॥ 'नूनं' निश्चितं यत् कुण्टल-विण्टलं पुरा "भे" भवत्यः कृतवत्यस्तदत्र क्षेत्रे यतिभाविते न वर्त्तते कर्तुम् । कुत एतद् ज्ञायते यद् वयं कुण्टल-वेण्टलं कृतवत्यः ? इति चेद् अत
आह—'अपेतवाच्यानां' वचनीयतारहितानां यत एवं यूयम् 'अतिपण्डिताः' अतीव दुर्विदग्धा 10 अस्माकम् 'अपवादम्' असदोषोद्धोषणं कुरुथ ॥ २२२१ ॥ इत्थमसङ्खडे उत्पन्ने किं कर्त्तव्यम् ? इत्याह
तत्थेव अणुवसंते, गणिणीइ कहिंति तह वि हु अठंते ।
गणहारीण कहेंती, सगाण गंतूण गणिणीओ ॥ २२२२॥ यदि तत्रैव परस्परमुपशान्तं तदसङ्खडं ततः सुन्दरमेव । अथ नोपशान्तं ततः 'गणिन्याः' 15 स्वस्याः खस्याः प्रवर्तिन्याः कथयन्ति । यदि न कथयन्ति ततश्चतुर्गुरवः । ततस्ते प्रवर्तिन्यौ मधुरया गिरा प्रज्ञाप्योपशमयतः । तथापि 'अतिष्ठति' अनुपरते 'द्वे अपि' गणिन्यौ गत्वा खेषां खेषां गणधारिणां कथयतः । यदि न कथयतस्ततश्चत्वारो गुरुकाः ॥ २२२२ ॥ ततः प्रवर्तिन्या कथिते गणधरेण किं विधेयम् ? इत्यत आह-~
उप्पन्ने अहिगरणे, गणहारिनिवेदणं तु कायर्व ।
जइ अप्पणा भणेज्जा, चाउम्मासा भवे गुरुगा ॥ २२२३ ॥ ___ 'अधिकरणे' असङ्खडे उत्पन्ने सति प्रवर्तिनीमुखादाकर्ण्य तेन गणधरेण द्वितीयस्य गणधारिणो निवेदनं कर्त्तव्यम् । यदि स गणधर आत्मनैव गत्वा द्वितीयगणधरसत्कां व्रतिनीं 'भणेत्' उपालम्भेत ततश्चतुर्मासा गुरुका भवेयुः ॥ २२२३ ॥ ईदमेव सविशेषमाह-~
वतिणी वतिथि वतिणी, व परगुरुं परगुरू व जइ वइणिं । 25
जंपइ तीसु वि गुरुगा, तम्हा सगुरूण साहेजा ॥ २२२४ ॥ __ यदि वतिनी व्रतिनी जल्पति' उपालभते, व्रतिनी वा यदि 'परगुरुम्' अन्यसंयतीगणधरं जल्पति, परगुरुर्वा यदि व्रतिनी जल्पति तत एतेषु त्रिष्वपि चतुर्गुरुकाः, तस्मात् स्वगुरूणां
कथयेत् , उपलक्षणत्वात् खतिनी चोपालम्भेत ॥ २२२४ ॥ ___अथ परव्रतिनीमुपालम्भमानस्य को दोषः स्यात् ? इत्यत्रोच्यते
जाणामि दमियं भे, अंगं अरुयम्मि जत्थ अकंता ।
को वा एअंन मुणइ, वारेहिह कित्तिया वा वि ॥ २२२५ ॥ सा परव्रतिनी भण्यमाना ब्रूयात्-जानाम्यहं यद् दूनं भवतामङ्गम् , 'यत्र' यस्मिन 'अरुषि' १-२ • एतदन्तर्गतः पाठः भा० नास्ति ॥ ३°न् अङ्गे 'अ° भा० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org