________________
भाष्यगाथाः २२११-२०] प्रथम उद्देशः ।
६३३ - संयत्यो त्रुबते-न्यूयं गृहीत भिक्षामस्मिन् प्रचुरान्नपानस्य ग्रामस्या?, अस्मिँस्तु मामाद्धे वयं ग्रहीष्यामः; यद्वा-अस्मिन् पाटकेऽस्यां वा साहिकायां यूयं गृहीत वयं शेषेषु गृहेषु ग्रहीप्याम इति ॥ २२१५ ॥
__ ओली निवेसणे वा, वजेत्तु अडंति जत्थ व पविद्वा ।
न य वंदणं न नमणं, न य संभासो न वि य दिट्ठी ।। २२१६॥ "ओलि" ति ग्रामगृहाणामेका पतिः, निवेशनं-एकनिष्क्रमण-प्रवेशानि यादीनि गृहाणि, ततो यस्यां पतौ निवेशने वा संयत्यः पर्यटन्ति तां वर्जयित्वा अन्यस्यां पङ्कावन्यस्मिन् वा निवेशने संयता मिक्षामटन्ति । अथ लघुतरोऽसौ ग्रामस्ततः पङ्क्तयादिविभागो न शक्यते कत्तुं ततो यत्र गृहादौ प्रविष्टा रथ्यायां वा गच्छन्त एकत्र मिलन्ति तत्र 'म च' नैव 'वन्दनं' कृतिकर्म न वा 'नमनं शिरःप्रणाममात्रं न च 'सम्भाषः' परस्परालापो नापि च 'दृष्टिः' सम्मुखम-10 वलोकनम् , मा प्रापत् पूर्वोक्तशङ्कादिदोषप्रसङ्ग इति ॥ २२१६ ॥
पुव्वभणिए य ठाणे, सुनोगादी चरंति वजेंता ।
पढम-विइयातुरा वा, जयणा आइन धुवकम्मी ॥ २२१७ ॥ 'पूर्वभणितानि च' शङ्काविषयभूतानि शून्यौकः-शून्यगृहं तदादीनि स्थानानि दूरेण वर्जयन्तश्चरन्ति, प्रथम-द्वितीयपरीपहातुरा वा यतनया जनाकीणे 'ध्रुवकर्मिका वा' काष्ठसूत्रधारादयो 15 यत्र पश्यन्ति तत्र प्रथमालिकां द्रवपानं वा कुर्वन्ति ॥ २२१७ ॥ एवं संयतीक्षेत्रे साधूनामागतानां विधिरुक्तः । अथोभयेषु पूर्वस्थितेषूभयेषामेवागमने विधिमाह
दोन्नि वि ससंजईया, एगग्गामम्मि कारणेण ठिया।
तासिं च तुच्छयाए, असंखडं तत्थिमा जयणा ॥ २२१८ ॥ 'द्वयेऽपि' वास्तव्या आगन्तुकाश्च साधवो यदि ससंयतीका एकस्मिन् ग्रामे कारणेन स्थिताः, 90 'तासां च' संयतीनां तुच्छतया यद्यसङ्खडमुपजायते तत्र 'इयं' वक्ष्यमाणा यतना ।। २२१८॥ -आह तिष्ठतु तावद् यतना, कथं पुनस्तासामसङ्खडमुत्पन्नम् ? इति सतावद् वयं जिज्ञासामहे,» उच्यते--ताभिर्वास्तव्यसंयतीभिरागन्तुकसंयत्यः पृष्टाः-आर्याः ! किं यूयं यदृच्छया भक्त-पानं लभध्वे न वा ? इति, ताः प्राहुः
चुण्णाइ-विंटलकए, गरहियसंथवकए य तुन्भाहिं ।
ताइँ अजाणंतीओ, फव्वीहामो कहं अम्हे ॥ २२१९ ॥ - चूर्ण-वशीकरणादिफलं द्रव्यसंयोगरूपं तेन आदिशब्दाद ज्योतिष-निमित्तादिना च विण्टलेन कृते-भाविते, तथा गर्हितः-पूर्व-पश्चात्सम्बन्धरूपो यः संस्तवः-परिचयस्तेन वा कृते-भाविते युष्माभिः क्षेत्रे 'तानि' चूर्णादीनि कर्तुमजानानाः कथं वयमत्र “फन्वीहामो" ति ५ 'देशीपदत्वाद् । यदृच्छया भक्त-पानं लभामहे ? ॥ २२१९॥ वास्तव्यसंयत्यः प्रतिब्रुवते
सेणाणुमाणेण परं जणोऽयं, ठावेइ दोसेसु गुणेसु चेव ।।
पावस्स लोगो पडिहाइ पावो, कल्लाणकारिस्स य साहुकारी ॥ २२२० ॥ १-२ एतन्मध्यगतः पाठः भा० मो. ले. नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org