________________
६३२
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् १० कडमकड त्ति य मेरा, कडमेरा मित्ति विति जइ पुट्ठा।
ताहे भणंति थेरा, साहह कह गिहिमो भिक्खं ॥ २२११॥ स्थविरैस्ताः प्रष्टव्याः-आर्याः ! युष्माभिः 'मर्यादा' सामाचारी 'कृता' शिक्षिता ? उत अकृता ? इति पृष्टा यदि ब्रुवते-'कृतमर्यादा वयं' कृतसामाचारीकाः, विधिं जानीम इत्यर्थः । 5 ततः स्थविरा भणन्ति-कथयत कथं भिक्षां गृह्णीमो वयम् ? ॥ २२११ ॥
ता बेंति अम्ह पुण्णो, मासो वच्चामु अहव खमणं णे ।
संपत्थियाउ अम्हे, पविसह वा जा वयं नीमो ॥ २२१२ ॥ ता आर्यिका ब्रुवते—पूर्णोऽस्माकं मासकल्पः, अतः सूत्रार्थपौरुष्यौ कृत्वा ब्रजामो वयम् , साधवो यथासुखं पर्यटन्तु । अथवा न पूर्णस्तथापि क्षपणमद्य “णे" अस्माकं सर्वासामपि ततः 10 पर्यटत यूयम् । अथ न क्षपणं ततस्ता ब्रूयुः-सम्प्रस्थिता वयं भिक्षाटनार्थम् , यूयं पश्चात् पर्यटत । अथवा-'प्रविशत' भिक्षामवतरत यूयं यावद् वयं निर्गच्छाम इति ॥ २२१२ ॥ यदा च तासां क्षपणं भवति तदा बेयु:
विच्छिन्नो य पुरोहडों, अंतो भूमी य णे वियारस्स ।
सागारिओ व सन्नी, कुणइ असारक्खणं अम्हं ॥ २२१३ ॥ 15 विस्तीर्ण पुरोहडं वर्तते, गाथायां प्राकृतत्वात् पुंस्त्वनिर्देशः, “णे" अस्माकम् 'अन्तः'
ग्राममध्ये विचारभूमिरस्तैि, यश्चास्माकं सागारिकः सः 'संज्ञी' श्रावकस्ततः संरक्षणमस्माकं करोति, बहिर्विचारभुवं गन्तुं न ददातीत्यर्थः । एवं संयतीभिरुक्ते साधवस्तत्र यथासुखं पर्यटन्ति । अथ ताभिः पूर्व क्षपणं न कृतं ततो यदि सुभिक्षं वर्तते प्रचुरं च प्राप्यते ततः संयत्यः क्षपणं कुर्वन्तु । अपि च यद्यपि तासां साधुभ्यो भक्त-पानं प्रदातुं न कल्पते तथा20 प्येवं कुर्वन्तीभिस्ताभिः प्राघुण्यं कृतं भवति । अथ न शक्नुवन्ति क्षपणं कर्तुं ततः संयत्यः प्रागेव पर्यटन्त्यो दोषान्नं गृह्णन्ति संयता भिक्षाया देशकाले उष्णं गृह्णन्ति । अथ संयतीनां दोषान्नमकारकं ततः संयता दोषान्नमितराः पुनरुणं गृह्णन्ति ॥ २२१३ ॥
उभयस्सऽकारगम्मी, दोसीणे अहव तस्स असईए।
संथर भणंति तुम्हे, अडिएसु वयं अडीहामो ॥ २२१४ ॥ 25 'उभयस्य' संयती-संयतवर्गस्य दोषान्ने अकारके अथवा 'तस्य' दोषान्नस्य 'असति' अभावे संस्तरणे सति संयत्यो भणन्ति-यूयं तावदटत ततो युष्मासु अटितेषु वयमटिष्यामः ॥ २२१४ ॥ अथैक एव तत्र देश-कालस्ततः क्रमेण पर्यटने वेलाया अतिक्रमो भवति ततः किं कर्त्तव्यम् ? इत्याह
तुब्भे गिण्हह भिक्खं, इमम्मि पउरन्न-पाण गामद्धे । 30
चाडग साहीए वा, अम्हे सेसेसु घेच्छामो ॥ २२१५॥ १ 'बजामो वयम्' ग्रामान्तरं वजिष्याम इति साधवो भा० ॥
२ स्ति, 'सामारिको वा' शय्यातरः 'संक्षी वा' श्रावकः स संरक्षणमस्माकं करोति अतो यथासुखमत्र पर्यटन्तु भवन्त इति । अथ ताभिः भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org