________________
६३०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् १०
जा तासि विराधणया, निरोधमादी तमावजे ॥ २२०४॥ 'एवमेव' भोगिकवत् केचिद् निरपेक्षाः संयता व्रतिनीनां सम्बन्धी यो नियोगः-ग्रामः क्षेत्रमित्यर्थः तस्य प्रमुखे-निर्गम-प्रवेशद्वारे स्थिताः तैर्या तासां निरोधादिका विराधना आदिशब्दादनागाढपरितापनादिका तामापद्यन्ते, तन्निष्पन्नं तेषां प्रायश्चित्तं भवतीति भावः ॥२२०४॥
अहवण थेरा पत्ता, दहें निकारणद्वियं तं तु ।
भोइयनायं काउं, आउट्टि विसोहि निच्छुमणा ॥ २२०५॥ 1 "अहवण" त्ति अखण्डमव्ययपदमथवेत्यस्यार्थे । - अथवा 'स्थविराः' कुलस्थविरादयतत्र क्षेत्रे प्राप्तास्तमाचार्यादिकं ग्रामद्वार एव स्थितं दृष्ट्वा पृच्छन्ति-आर्य ! किमत्र संयतीक्षेत्रे भवानीदृशे प्रदेशे स्थितः ? इति । यदि निष्कारणिकस्ततो भोगिकज्ञातमनन्तरोक्तं कुर्वन्ति, 10 यथा तेन महिलाजनेन महान् क्लेशराशिरनुबभूवे, एवमेताभिरपि संयतीभिर्भवता अत्र स्थितेन महद् दुःखमनुभवनीयम् । एवमुक्ते यदि 'आवृत्तः' प्रतिनिवृत्तस्ततो 'विशोधिं' प्रायश्चित्तं दत्त्वा ततः क्षेत्रानिष्काशना कर्त्तव्या ॥ २२०५॥
एवं ता दप्पेणं, पुट्ठो व भणिज कारण ठिओ मि ।
तहियं तु इमा जयणा, किं कजं का य जयणाओ ॥ २२०६ ॥ 15 एवं तावद् 'दर्पण' आकुट्टिकया स्थितानां दोषा उक्ताः । अथ कुलादिस्थविरैः पृष्टो भणेत्-कारणे स्थितोऽस्म्यहम् । ततः पुष्टकारणसद्भावे न प्रायश्चित्तं न वा निष्काशना । तत्र तु कारणे स्थितानाम् 'इयं' वक्ष्यमाणा यतना । शिष्यः प्राह–किं पुनः 'कार्य' कारणम् ? का वा यतनाः ? ॥ २२०६ ॥ उच्यते
अद्धाणनिग्गयाई, अग्गुजाणे भवे पवेसो य ।
पुनो ऊणो व भवे, गमणं खमणं च सव्वासिं ॥ २२०७॥ ___ अध्वनो ये निर्गता वसिमं प्राप्तास्तेऽध्वनिर्गताः, आदिशब्दादशिवादिकारणेषु वर्तमानाः संयतीक्षेत्रे प्राप्ताः। तत्र चारोद्याने स्थित्वा गीतार्थाः संयतीप्रतिश्रये प्रहेयाः । तैश्च विधिना तत्र प्रवेशः कर्त्तव्यः । संयतीनां च मासकल्पः पूर्ण ऊनो वा भवेत् । यदि पूर्णस्ततो गमनं कर्त्तव्यम् । अथ न्यूनस्ततः सर्वासामपि क्षपणं भवतीति नियुक्तिगाथासमासार्थः ॥२२०७॥
१ - एतन्मध्यगतः पाठः भा० नास्ति ॥२°ति । ततो निर्वचने प्रदत्ते यदि नि त• डे० ॥ ३°त्वा संयतीप्रतिश्रये प्रवेशः भा० ॥ ४ भवतीति समासार्थः । अथ विस्तरार्थ उच्यते-ते साधवोऽध्वनिर्गतादयः तत्र क्षेत्र प्राप्ताः स्वयं संयतीभिः सहिता रहिता वा भवेयुः। तत्र संयतीविरहितानां विधिरभिधीयते-यदि न तावद भिक्षाया देशकालस्ततो न तत्र स्थातव्यम्, यः पुरोवर्ती ग्रामस्तत्र गत्वा भैक्षं ग्रहीतव्यम् ॥ २२०७॥[अथ] तत्रामूनि कारणानि भवेयुः-उब्वाया० गाथा २२०८ । ते साधवः 'उद्वाताः' अतीव परिश्रान्ताः, भा०।
"अद्धाण. दारगाधा ॥ ते साधू अद्धाणणिग्गतादी तत्थ पत्ता जत्थ संजतीओ ठितेल्लियाओ। ते पुण संजतिसहिता वा संजतिरहिता वा। तत्थ संजतिविरहिताणं ताव विधि भण्णति-जति ण ताव भिक्खावेला तो
वोलेतन्वं, अग्गतो जो गामो तत्थ भिक्खं घेत्तव्वं ॥ अह इमे कारणे ण वोलेजा-उवाया• गाहार्द्ध कंठं। Jain Education International
For Private & Personal Use Only
20
www.jainelibrary.org